________________
३३०
.. अनेकान्तजयपताकाख्यं प्रकरणम् [चतुर्थः
(मूलम् ) भेदो वासनाप्रकृतिश्च तस्या आश्रयः” इत्यादिवचनप्रामाण्यात्, प्रधानादिबुद्धिभेदसिद्धेरिति ॥ ०५. न चासामप्यधिकृतभेद एवाश्रयःअतत्प्रतिभासत्वात् तद्रूपाच ततस्तदतत्प्रतिभासत्वानुपपत्तेः अतिप्रसङ्गाद रूपाद्यन्यतमभेदादेव बुद्धीनां रसादिप्रतिभासत्वापत्तेः तदसत्त्वप्रसङ्गादित्युक्तम् । न च वासनाप्रकृत्युपादानभेदतस्तत एवासामतत्प्रतिभासता, तस्य तत्त्वतो निरंशत्वात्, अनेकसहकारित्वाभावात् यथा१. कथञ्चिदेकसहकारिखभावत्वे तदन्यसहकारिखभावत्व विरोधात्,
(स्वो० व्या) गमात् । एनमेवाह-वस्तुभेदः स्खलक्षणरूपो वासनाप्रकृतिश्च बोधनिबन्धना तस्याः-रूपादिसामान्यबुद्धेराश्रय इत्यादिवचनप्रामाण्यात् । किमित्याहप्रधानादिवुद्धिभेदसिद्धेः तस्या एव । 'आदि'शब्दादीश्वरादिबुद्धिग्रहः । इति १५ 'अपोहमात्राभिधायकत्वेऽपि चैषां समान एवायं प्रसङ्गः" इति सर्वत्र क्रियायोगः ॥
न चासामपि-प्रधानादिबुद्धीनामधिकृतभेद एव रूपादिस्खलक्षणरूप आश्रयः। कुत इत्याह-अतत्प्रतिभासत्वात्-अरूपादिप्रतिभासत्वात् प्रधानादिबुद्धीनां तद्रूपाच-रूपादिरूपाच ततः अधिकृतभेदात् । किमित्याह-तद
तत्प्रतिभासत्वानुपपत्तेः तासां-प्रधानादिबुद्धीनामतत्प्रतिभासत्वानुपपत्तेः, २० अरूपादिप्रतिभासत्वानुपपत्तेरित्यर्थः । अनुपपत्तिश्च अतिप्रसङ्गात् । एनमेवाह
रूपाद्यन्यतमभेदादेव सकाशाद् बुद्धीनां रसादिप्रतिभासत्वापत्तेः प्रधानादिप्रतिभासवत् । ततः किमित्याह-तदसत्त्वमसङ्गात्-रसाधसत्त्वप्रसङ्गात् इत्युक्तं प्राक् । न चेत्यादि । न च वासनाप्रकृत्युपादानभेदत:-प्रधानादि
वासनाप्रकृत्युपादानभेदेन तत एव-वस्तुभेदाद् रूपादेरासां-प्रधानादिबुद्धीना२५मतत्प्रतिभासता-अरूपादिप्रतिभासता । कुतो न चेत्यादि(?ह)तस्य-वस्तुभेदस्य : तत्त्वत:-परमार्थतः निरंशत्वात्-एकस्वभावत्वात् , अनेकसहकारित्वा.
भावात् । अभावश्च यथाकथञ्चिदेकसहकारिख भावत्वे-रूपादिबुद्धिसहकारिखभावत्वे तदन्यसहकारिखभावत्वविरोधात्-'विधानादिबुद्धिसहकारि
(विवरणम्) ३० (१२) वासनाप्रकृतिश्चेति । वासनायाः सम्बन्धी स्वभाव इत्यर्थः ॥
(१४) तस्या एवेति । रूपादिसामान्यबुद्धेः ।। १ द्रष्टव्यं ३२९तम पृष्ठम् । २ 'प्रधानादि०' इति किं स्यात् ।।