________________
खोपज्ञव्याख्यामुनि चन्द्रीयविवरणयुतम्
(मूलम् )
अपोहमात्राभिधायकत्वेऽपि चैषां समान एवायं प्रसङ्गः, तथाविधापोहस्यापि सर्वत्राभावात्, अप्रधानाद्यपोहस्य कचिदनुपपत्तेः, सर्वभावानामेव परमार्थतोऽप्रधानादिरूपत्वात्, बुद्धिपरिकल्पित- ५ तदपोहाभ्युपगमे च तदन्यतो विशेषात् रूपादि विज्ञानाद्यपोहस्यातथाभूतत्वात् वस्तुबलप्रवृत्तेः रूपादीनां रसादिभ्यो भेदात् तथाविधतद्बुद्धीनामपि पारम्पर्येण तन्निमित्तत्वाभ्युपगमात्, "वस्तु
अधिकारः ]
३२९
3
( खो० व्या० ) श्रवणमात्रादेव सकाशादनृतत्वादियाथात्म्यमवधारयन्तो ध्वनेः १० शब्दस्य । दोषान्तरमाह-अपोहाभिधायकत्वेऽपि चैषां शब्दानामिति प्रक्रमः । किमित्याह - समान एवायम् - अनन्तरोदितः प्रसङ्गः । कुत इत्याह-तथाविधापोहस्यापि -अपोह्यापोढाश्रयस्य सर्वत्राभावात् । अभावश्च अप्रधानाद्यपोहस्य कचिदपि - प्रधानादौ अनुपपत्तेः । कथमित्याह - सर्व भावानामेव तत्त्वतः - परमार्थतोऽप्रधानादिरूपत्वात् । बुद्धिपरिकल्पिततदपोहा- १५ भ्युपगमे च - प्रधानाद्यपोहाङ्गीकरणे च । किमित्याह - तदन्यतः -अपोहाद् विशेषात् । विशेषमेवाह रूपादीत्यादिना । रूपादिविज्ञानाद्यपोहस्य बुद्धिपरिकल्पितस्यापि अरूपविज्ञानं न भवतीति रूपविज्ञानमित्येवम्भूतस्य अतथाभूतत्वात्, प्रधानाद्यपोहरूपेणाभूतत्वादित्यर्थः । कथमित्याह - वस्तुबलप्रवृत्तेः इयं च रूपादीनां वस्तुसतां रसादिभ्यो भेदात् तथाविधतद्बुद्धीनामपि - २० "विकल्पिकानां पारम्पर्येण तन्निमित्तत्वाभ्युपगमात्-रूपादिनिमित्तत्त्वाभ्युप
( विवरणम् )
(१३) अपोह्यापोढाश्रयस्येति । अपोह्यन्ते - पृथक् क्रियन्तेऽपोह्याः वटाद्यन्यतरपदार्थापेक्षया पटादयः पदार्थास्तेभ्योऽपोढः - विलक्षणो घटादिः पदार्थः, स आश्रयः परम्परया यस्य घटाले खिनोऽपोहस्य स तथा तस्य । अयमत्राशयः - बौद्धमतेऽपि २५ योऽयं घटाद्यपोहः स परम्परया घटादिपदार्थाश्रयः । यस्तु प्रधानाद्यपोहः स नैवंविधः, प्रधानादीनामभावात् ॥
(१७) रूपादिविज्ञानाद्यपोहस्येति । अत्र प्रथमेनादिशब्देन रसादिज्ञानापोहपरिग्रहः, द्वितीयेन तु घटपटादिज्ञेयपदार्थप्रतिबद्धा पोहस्येति ॥
१ 'स्यापि च सर्वत्रा०' इति क-पाठः । २ 'रूपादिज्ञाना०' इति घ-पाठः । ३ ' परमार्थतः - तत्त्वत:' इति स्यात्, अथवा मूलग्रन्थे 'तत्त्वतः पाठः स्यात् । ४ ' विकल्पकाना' इति क- पाठः ।
अनेकान्त० ४२
P