________________
३२८
अनेकान्तजयपताकाख्यं प्रकरणम् [चतुर्थः
(मूलम्) यच्चोक्तं-'परमार्थंकतानत्वे च शब्दानामनिमित्ता न स्यात् प्रवृत्तिरर्थेषु चित्रतत्रान्तरगतेषु परस्परविरोधित्वेन सर्वेषां तथाऽ५ भावात्' इत्येतदप्ययुक्तम् , मृषाभाषावर्गणोपादानशब्दानां निमित्तभेदवैचित्र्येण बहुभेदानामनर्थकत्वाभ्युपगमात् । ते हि तदर्थप्रा. त्यादिप्रसव विकला वन्ध्याबला इव केवलं तथाविधसंवेदनसम्भोगमात्रफला एव, स्वरूपालोचनादिभ्यस्तु प्रमाणादिवेतरस्य अर्थ
वच्छब्देभ्यस्तद्विशेषावसायः। तथाहि-दृश्यन्त एव केचिद् विमल१० मतयः श्रवणमात्रादेवानृतत्वादियाथात्म्यमवधारयन्तो ध्वनेः,
(खो० व्या०) तादात्म्यादिविचारविषयास्तु दोषा:-क्षुरिकादिशब्दोच्चारणे वदनपाटनादयः अनभ्युपगमादेव तादात्म्यादेः । किमित्याह-न नो बाधायै भवन्ति ॥
यच्चोक्तमित्यादि । यच्चोक्तं पूर्वपक्षग्रन्थे-परमार्थकतानत्वे च शब्दा३५ नामनिमित्ता न स्यात् प्रवृत्तिरर्थेषु चित्रतत्रान्तरगतेषु प्रधानादिषु
परस्परविरोधित्वेन हेतुना सर्वेषां तथाऽभावात्-केवलप्रधानादित्वेनाभावात् इत्येतदप्ययुक्तं पूर्वपक्षोक्तम् । कुत इत्याह-मृषाभाषावर्गणोपादानशब्दानां-प्रधानादीनां निमित्तभेदवैचित्र्येण-तदारम्भकपुद्गलादिवैचित्र्येण हेतुना बहुभेदानाम् । किमित्याह-अनर्थकत्वाभ्युपगमात् एतदप्ययुक्त२० मिति । ते हीत्यादि । ते यस्मात् प्रधानादिशब्दाः तदर्थप्रास्यादिप्रसवविकलाः प्रधानाद्यर्थप्राप्त्यायेव प्रसवस्तद्विकलाः, 'आदि'शब्दादर्थक्रियादिग्रहः, वन्ध्याबला इव निदर्शनम् , केवलं तथाविधसंवेदनमेव-समारोपतो निर्विषयसंवेदनमेव सम्भोगमात्रमिति विग्रहस्तदेव फलं येषां ते तथाविधा इति । न हि वन्ध्यायाः सम्भोगेऽप्यपत्यमुत्पद्यते, न चासौ न सम्भोगः । एवं न तत् संवेदन२५ मर्थप्रात्यादिमत्, न च न संवेदनमिति भावनीयम् । कथमितरेभ्यस्त द्विशेषावसाय इत्याह-स्वरूपालोचनादिभ्यः पुनः, 'आदि'शब्दात् तद्विषयपूर्वापरविरोधादिग्रहः, प्रमाणादिवेतरस्य-प्रमाणाभासस्य अर्थवच्छन्देभ्यः-जीवादिवाचकेभ्यः सकाशात् । किमित्याह-'तद्विशेषावसायः' तेषां-मृषाभाषावर्गणोपादानानामनर्थकप्रधानादिशब्दानां विशेषावसाय इति । न चैतदलौकिकमित्याह-तथा३० हीत्यादि । तथाहीति पूर्ववत् । दृश्यन्त एव केचिद् विमलमतयः-श्रोतारः
१३१८ तमे पृष्ठे । अत्र मुद्रणदोषादष्टमनवमपतयोविपर्ययो जातोऽस्ति स संशोधनीयः । २ 'चेतर.' इति क-पाठः। ३ ३१८ तमे पृष्ठे। ४ 'दि चेतर.' इति क-पाठः।