________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
३२७ (मूलम्) सर्वार्थवाचकशक्तिमन्तः, सर्वे चार्थाः सर्वशब्दवाच्यशक्तियुक्ता इति विचित्रक्षयोपशमादिसहकारियोगतस्तथा तथा प्रवर्तन्त इति न काचिद् बाधा। एतेन 'न रूपप्रकाशनस्वभावो दीपोऽरूपं प्रकाशयति, ५ तद्वदेव घटादिवाचकखभावः शब्दः प्रयोगादपि नाघटं प्रकाशयेत् इत्यपि प्रत्युक्तम् , विचित्ररूपप्रकाशनस्वभावदीपवदेव चित्रवाच्य. वाचकखभावत्वात् शब्दस्य, अशेषाभिधानेऽपि तु सहकारिक्षयोपशमभेदतोऽर्थितादिभेदेन प्रदीपात् प्रकाश्ये वाच्ये प्रतिपत्तिः ।न च दीपप्रकाशिता अपि सर्वे निम्नोन्नतादयः सर्वैरेव प्रतीयन्ते, चक्षुः-१० सामर्थ्यानुरूपं प्रतीतिभेदोपलब्धः । इति शब्दार्थयोाच्यवाचकलक्षणप्रतिबन्धसिद्धिः तादात्म्यादिविचारविषयास्तु दोषा अनभ्युपगमादेव न नो बाधायै भवन्ति ॥
(स्वो० व्या) शब्दस्येति प्रक्रमः, योगाद् वाच्यान्तरवाचकत्वस्य । एतद्भावनायाह-तथा १५ चेत्यादि । तथा च सर्वे शब्दाः-घटादयः प्राय:-बाहुल्येन खभावतो वन्ध्यशब्दान् मुक्त्वा प्रधानादीन् सर्वार्थवाचकशक्तिमन्तः, तथाफलदर्शनात् ; सर्वे चार्था:-घटादयः सर्वशब्दवाच्यशक्तियुक्ता उक्तादेव हेतोरिति-एवं विचित्रक्षयोपशमादिसहकारियोगतः, 'आदि'शब्दात् तत्तत्प्रयोजन-देशकालादिग्रहः । तथा तथा-तेन तेन प्रकारेण प्रवर्तन्त इति-एवं न काचिद् २० बाधा सङ्केततो वाच्यान्तरवाचकत्वे शब्दस्य । एतेन-अनन्तरोदितेन न रूपप्रकाशनखभावो दीपः अरूपं प्रकाशयति स्वभावरसादि तद्वदेवएवमेव घटादिवाचकस्वभावः शब्दः प्रयोगादपि-सङ्केतेन नाघटं प्रकाशयेत्-अभिदध्यादित्याद्यपि प्रत्युक्तम् । कथमित्याह-चित्ररूपप्रकाशनवभावदीपवदेव सितेतराद्यपेक्षया चित्रवाच्य-वाचकखभाव-२५ त्वात् शब्दस्य, अशेषाभिधानेऽपि तत्त्वेन पुनः सहकारिक्षयोपशमभेदतः अर्थितादिभेदेन एव, प्रदीपादिति निदर्शनं प्रकाश्ये-सितादौ वाच्ये प्रतिपत्तिर्घटादौ । चित्रास्तरणे दीपात् समं सितादिप्रतिपत्ति वं शब्दाद् वाच्येष्वित्येतन्निरासायाह-न च दीपप्रकाशिता अपि सर्वे निम्नोन्नतादयः सर्वैरेव प्रतीयन्ते प्रमातृभिः । कुत इत्याह-चक्षु सामर्थ्यानुरूपं प्रतीति-३० भेदोपलब्धेः। इति-एवं शब्दार्थयोर्वाच्यवाचकलक्षणप्रतिबन्धसिद्धिः।
१ 'स्ववाच्ये वन्ध्यः ' इति ङ-पाठः। २ 'प्रकाशयति रसादि' इति घ-पाठः। ३ 'वाच्येष्वतन्निरासा.' इति क-पाठः। ४ 'सम्बन्ध०' इति घ-पाठः ।