________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
प्रमाणम्, अतीन्द्रियत्वात् । विपर्ययेऽपि समानमेतदिति चेत्, न, इदानीन्तनप्रयोगतोऽसमानत्वसिद्धेः, अन्यथा धूम-धूमध्वजादिषु ५ अपि समानमेतत् । तथा च 'नैरात्म्यादिभावनाया अपि सदा रागादिप्रहाणनिबन्धनत्वेनाश्वास इति यत्किञ्चिदेतत् ॥
३२६
[ चतुर्थ:
एवमपि सङ्केततो वाच्यान्तरवाचकत्वं शब्दस्यायुक्तमिति चेत्, न तेतचित्रशक्तिमत्त्वेन योगात् । तथा च सर्वे शब्दाः प्रायः ( खो० व्या० )
१० शब्दप्रयोगरूपा कृता । इति चेत्, एतदाशङ्कयाह-न अत्र प्रमाणमन्यथा कृतेति । कुत इत्याह- अतीन्द्रियत्वात् अस्य वस्तुनः । विपर्ययेऽपि न कृतेत्यस्मिन् समानमेतन्नात्र प्रमाणमित्यादि यदुक्तम् । इति चेत्, एतदाशङ्कयाहनेत्यादि । न - नैतदेवमिदानीन्तनप्रयोगतः शाक्यमुनेः सुमेर्वादौ सुमेर्वादिशब्दप्रयोगतः कारणात् असमानत्वसिद्धेः अधिकृत विपर्ययेऽतत्स्वभावात् सकृदपि १५ तथा तद्भावविरोध इत्यभिप्रायः । एतदुक्तं भवति-सङ्केतद्वारेणापि सुमेर्वादौ सुमेर्वादिशब्दप्रयोगो नातत्स्वभावत्वे तयोर्भवति । तत्स्वभावत्वे च सिद्ध एव मदीयोsभ्युपगमस्तदानीमपि तयोस्तत्स्वभावत्वादिति । विपक्षे बाधामाह - अन्यथेत्यादि । अन्यथा - एवमनभ्युपगमे धूम-धूमध्वजादिष्वपि - हेतुफलस्वभावेषु समान - मेतदनादौ संसारे व्यभिचारचोदनमिति परिभावनीयम् । एवं लौकिकाविनाभाव२० नियमानियममभिधाय लोकोत्तरमेनमधिकृत्याह तथा चेत्यादि । तथा च एवं च सति नैरात्म्यादिभावनाया अपि सदा रागादिप्रहाणनिबन्धनत्वे किमित्याह-अनाश्वासः सुमेर्वादिशब्दस्येव सुमेर्वादिनिबन्धनत्वे इति एवं यत्किञ्चित् - असारमेतत्-विपर्ययेऽपि समानमेतदित्यादि ॥
एवमपीत्यादि । एवमपि सति सङ्केततः - सङ्केतेन वाच्यान्तरवाचकत्वं २५ शब्दस्य - घटादेः पटादिवाचकत्वमित्यर्थः, अयुक्तम् - अन्याय्यम् । इति चेत्, एतदाशङ्कयाह - नेत्यादि । न-नैतदेवं ततः सङ्केततः चित्रशक्तिमत्त्वेन, ( विवरणम् )
(१४-१५) अतत्स्वभावात् सकृदपि तथा सद्भावविरोध इति । अतत्स्वभावात् - प्रतिनियतपदार्थवाचकत्व लक्षणस्वभावविकलात् सुमेर्वादिध्वनेः सकाशात् ३० सकृदपि - एकामपि वेलां तथा प्रतिनियतेन ध्वनिना यस्तस्य सुमेर्वादेरभिधेयस्य स्वभावः--वाच्यतालक्षणं स्वरूपं तस्य विरोधः । भावितं चैतत् स्वयमेव वृत्तिकृता ॥
१ 'नैतरात्म्यादि ० ' इति क - पाठञ्चिन्त्यः । २ ' ततस्तश्चित्रशक्ति०' इति क-पाठः ।