________________
३२५
अधिकारः]
स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) भावावगमात् । तथाहि-सर्व एव सर्वज्ञाः 'सुमेरप्रभृतींस्तच्छन्दवाच्यानेव प्रतिपद्यन्ते, तैरेव तथाप्ररूपणात् । अन्यैरेवं प्ररूपिता इति तथामरूपणमिति चेत्, तेषामेव तथाप्ररूपणे को हेतुः ? । अन्य-५ प्ररूपणेति चेत्, अनापि समानः प्रसङ्गः। समाधिरपि समान एवेति चेत्, तत्सम्बन्धसिद्धिः, सर्वैरेव तथा तज्ज्ञानाभिधानात् । अनादौ संसारे कदाचित् कैश्चिदन्यथा सा कृतेति चेत्, न अत्र
(खो० व्या०) शब्दादर्थाच्च सकाशात् केवलादेव सम्यक्-अवैपरीत्येन वाच्यवाचक- १० भावावगमात् कारणात् तथोपलब्धेरिति 'सिद्धम् । तथाहीत्यादि । तथाहीत्युपप्रदर्शने । सर्व एव सर्वज्ञाः-भगवन्तो बुद्धाः शाक्यमुन्यादयः 'सुमेरुप्रभृतीन पदार्थान् , प्रभृतिग्रहणात् 'जम्बूद्वीपा'दिग्रहः, तच्छन्दवाच्यानेव-सुमेर्वादिशब्दवाच्यानेव प्रतिपद्यन्ते । कुत इत्याह-तैरेव-सुमेर्वादिशब्दैः । तथा-विशिष्टयैवानुपूर्व्या 'सुमेरु'-'जम्बूद्वीपा'दिलक्षणया प्ररूपणात्, अन्यैः-सर्वज्ञैः काला- १५ न्तरवर्तिभिः 'विपश्यादिभिरेवं-सुमेर्वादिशब्दवाच्यतया प्ररूपिता इति कृत्वा । तथा-विशिष्टयैवानुपूर्व्या 'सुमेरु'-'जम्बूद्वीपा'दिलक्षणया प्ररूपणम् । इति चेत्, एतदाशङ्याह-तेषामेव-अन्येषां तथाप्ररूपणे को हेतुः?। अन्यप्ररूपणेति चेत् , अन्ये कल्पान्तरवर्तिनो गृह्यन्ते । एतदाशङ्कयाह-अत्रापि-अन्यप्ररूपणायां समान: प्रसङ्गः । तेषामेव तथानरूपणे को हेतुरित्ययम् । समाधिरपि-परिहारः २० अपि समान एवेति चेत् , अन्यप्ररूपणाहेतुरित्ययम् । एतदाशङ्कयाह-तत्सम्बन्धसिद्धिः तयोः-सुमेर्वादिपदार्थ-सुमेर्वादिशब्दयोः सम्बन्धसिद्धिः । कुत इत्याहसर्वैरेव-कल्पान्तरवर्तिभिरपि सर्वज्ञैस्तथा-सुमेर्वादिशब्दवाच्यत्वादिना प्रकारेण तज्ज्ञानाभिधानात्-सुमेर्वादिज्ञानाभिधानात् । अनादौ संसारे कारणाभावात् कार्याभावेन कदाचित् कैश्चित्-सर्वज्ञैः अन्यथा सा-प्ररूपणा बिन्दुकादि-२५
(विवरणम्) (२४-२५) कारणाभावात् कार्याभावेनेति । संसारानादित्वे साध्येऽयं हेतुस्ततोऽयमर्थः-संसारस्य सादित्वे साध्ये नास्ति किश्चित् कारणम् , सर्ववादिसम्मतत्वात् संसारानादितायाः । अतः संसारसादिताकारणस्य कस्याप्यभावात् संसारसादितालक्षणस्य कार्यस्याप्यभावः, तेन कारणाभावात् कार्याभावेन ३० अनादित्वं संसारस्येति ॥
१ सिद्धः' इति कु-पाठः। २ 'विपश्चादि.' इति ङ-पाठः।