________________
३२४
अनेकान्तजयपताकाख्यं प्रकरणम् - [चतुर्थः
(मूलम् ) वाचकलक्षणो हि शब्दार्थयोः प्रतिबन्धः। तथाहि-वाच्यस्वभावा अर्था वाचकवभावाश्च शब्दा इति तज्ज्ञप्तिवादः । यद्येवं कथं न ५ सङ्केत्तमन्तरेणैव ततस्तदवगतिः ? । उच्यते-तथाविधक्षयोपशमाभावात् । न हि रूपप्रकाशनखभावोऽपि दीपोऽसति चक्षुषि तत् प्रकाशयति, चक्षुष्कल्पश्च क्षयोपशमः। स च सङ्केत-तपश्चरणभावनादिजन्यः, तथोपलब्धेः, सङ्केतादिभ्यः समुपजातक्षयोपशमादिभावानां लौकिकयतिमुनीनां शब्दादाच सम्यग्वाच्यवाचक
(स्वो० व्या०) बाह्यस्य शब्देनावगतेः कारणात् । अवगतिश्च प्रतिबन्धभावात् । वस्तुशब्दयोः प्रतिबन्धमाह-वाच्यवाचकलक्षणो हि शब्दार्थयोः प्रतिबन्धः । एतदेव भावयति तथाहीत्यादिना । तथाहि वाच्यखभावा अर्था:घटादयो वाचकखभावाश्च शब्दाः-घटादिशब्दा इति तज्ज्ञप्तिवादः१५ शब्दार्थज्ञप्तिवचनम् । अतत्स्वभावत्वे कथं शब्दादर्थप्रतीतिः कथं वा न घटात् पट इति परिभावनीयम् । आह-यद्येवं वाच्यवाचकलक्षणः शब्दार्थयोः प्रतिबन्धः, कथं न सङ्केतमन्तरेणैव ततः-शब्दात् तदवगतिः-अर्थावगतिः । एतदाशयाह-उच्यते-तथाविधक्षयोपशमाभावात् न सङ्केतमन्तरेणैव ततस्तदवगतिः । एतदेव भावयति-न हि रूपप्रकाशनखभावोऽपि प्रदीपोऽसति २० चक्षुषि अन्धस्य तत्-रूपं प्रकाशयति, तद्दर्शनाभावात् । न च तस्यापि प्रकाशितं तदिति न्याव्यं वचः । दर्शननिमित्तस्वभावस्य प्रकाशनत्वाभ्युपगमादतोऽनेकखभाव एव तस्मिंश्चक्षुष्मदादीनां दर्शनादर्शने नान्यथेति परिभावनीयमित्यलं प्रसङ्गेन । प्रकृतं प्रस्तुमः-चक्षुष्कल्पश्च क्षयोपशमः । स चेत्यादि । स चक्षयोपशमः सङ्केत-तपश्चरणभावनादिजन्यः । कुत इत्याह-तथोपलब्धेः२५ सङ्केतादिभावेऽर्थावगत्याः कार्यतः क्षयोपशमोपलब्धेः । तथा चाह-सङ्केतादिभ्यः, 'आदि'शब्दात् तपश्चरणभावनादिग्रहः, समुपजातक्षयोपशमादिभावानाम् , आदि शब्दात् क्षायिकभावग्रहः, लौकिकयतिमुनीनां मुनयो वीतरागा एव
(विवरणम् ) अथाभिलाप्यानभिलाप्याधिकारे किञ्चिद् व्याख्यायते । (२१-२२) अतोऽ३० नेकस्वभाव एव तस्मिंश्चक्षुष्मदादीनां दर्शनादर्शने इति । चक्षुष्मतः प्रतीत्य प्रकाशः एकस्वभावः प्रदीपः तदितरांशाप्रकाशरूप इति अनेकवभावता प्रदीपस्य । १ 'भावानां नो लौकिका' इति ग-पाठः। २ 'तद्ज्ञातवादः' इति -पाठः ।