________________
अधिकारः]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
३२३
३२३
(मूलम्)
अन्य इति चेत्, न, आत्मवादापत्तेः, तत्तथाऽध्यवसायनिमित्ताभावाच । तथाविधशब्दात् तथाविधविकल्पजन्मैवाध्यवसिततद्भावतेति चेत्, अभ्युपगतं तर्हि शब्दस्यार्थवाचकत्वम् । तथाहि-इदमेवास्य तद्वाचकत्वं यत् तथा तदाकारविकल्पजनकत्वम् । तच्चेदिष्यत एव तथाविधात् ततस्तथाविधविकल्पोत्पत्त्यभ्युपगमेनेति । एवं च तदेव अस्य नियाजमस्तु, किमनेनाकाशकुसुमोद्गमसमानेन दृश्यविकल्प्याथैकीकरणव्याजेन ? ॥
'ततश्च दृश्यविकल्प्यावावेकीकृत्य तबलात् प्रवर्तते, न तु ० शब्दाद् वस्त्वेव प्रतिपद्य तस्य ततोऽनवगतेः' इति शब्दगडमात्रमेव, वस्तुन एव शब्देनावगते, प्रतिबन्धभावात् । वाच्य
(स्वो० व्या) स्वायोगात् । अन्य इति चेत्-विकल्पादन्यो विकल्प्यमेव दृश्यमित्यध्यवस्यति, एतदाशङ्कयाह--न, आत्मवादापत्तेः स एव विकल्पादन्यो बोध १५ आत्मेत्यापद्यते । दूषणान्तरमाह-तत्तथाऽध्यवसायनिमित्ताभावाच्च तस्यविकल्प्यस्य दृश्याध्यवसायनिमित्ताभावाच । तथाविधेत्यादि । तथाविधशब्दात्विशिष्टविकल्पनिवन्धनात् । तथाविधविकल्पजन्मैव-विशिष्टविकल्पोत्पाद एव अध्यवसिततद्भवता । इति चेत्, एतदाशझ्याह-अभ्युपगतं तर्हि शब्दस्य अर्थवाचकत्वम् । एतदेवाभिधातुमाह तथाहीत्यादिना । तथाही-२० त्युपप्रदर्शने । इदमेवास्य-शब्दस्य तद्वाचकत्वम्-अर्थवाचकत्वं यत् तथातन्निमित्तशब्दारूषितार्थप्रवृत्त्याद्यङ्गत्वेन तदाकारविकल्पजनकत्वम्-अर्थाकारविकल्पजनकत्वम् । तच्चेदित्यादि । तच्चेत्-अर्थाकारविकल्पजनकत्वं यद् इष्यत एव भवता तथाविधात्-विशिष्टात् ततः-शब्दात् तथाविधविकल्पोत्पत्यभ्युपगमेन-तन्निमित्तशब्दारूषितार्थप्रवृत्त्याद्यङ्गभूतविशिष्टविकल्पोत्पत्त्यम्युपगमेन २५ इति । एवं च कृत्वा तदेव-अर्थवाचकत्वमेव अस्य-शब्दस्योक्तनीत्या निर्व्याजम्-अपेतमायास्थानमस्तु-भवतु, किमनेनाकाशकुसुमोद्गमसमानेन ? निष्फलेनेत्यर्थः । दृश्य-विकल्प्याथैकीकरणव्याजेन-मायास्थानेन ॥
'ततश्च दृश्यविकल्प्यावावेकीकृत्य तबलात् प्रवर्तते, न तु . शब्दाद् वस्त्वेव प्रतिपद्य तस्य ततोऽनवगतेः' इति शब्दगड-३० मात्रमेव-पूर्वपक्षोदितं वचः । कुत इत्येतदेव द्रढयन्नाह-वस्तुन एव१-२ द्रष्टव्यं ३१८तम पृष्ठम् ।