________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
,
तद्भावेऽपि दृश्यस्य 'विकल्प्येनैकीकृतत्वाद् विकल्पमात्रतापत्तेः, तदवगमाद् वस्तुन्यप्रवृत्तिरेव । न वै स्वविभिन्नदृश्यस्य विकल्प्येनात्म५ सात्करणमेकीकरणम् अपि त्वस्यैवाध्यवसिततद्भावता । तथाहि - विकल्पयमेव दृश्यमित्यध्यवस्य प्रवर्तत इति । एतदप्यनालोचितमनोहरम् तस्यैवाध्यवसिततद्भावताऽसिद्धेः, अतदाभेन तद्भावाध्यवसायविरोधात् अतिप्रसङ्गात्, नीलाकारबोधेन पीताध्यवसायापत्तेः इत्यसमञ्जसत्वेन व्यवहारोच्छेदप्रसङ्गात् ॥
3
किश्च कः खल विकल्पयमेव दृश्यमित्यध्यवस्यति ? । विकल्प एवेति चेत्, न, तत्र सामान्यावभासनात्, अन्यथा विकल्पत्वायोगात् ।
१०
३२२
[ चतुर्थ:
( स्वी० व्या० )
साधर्म्यदधिकृत दृश्याप्रतिपत्तेः कारणात् कथं तेनैव दृश्येनैव एकीकरणम् ? अदर्शनाविशेषे किमित्यनेन एवेति भावः । अभ्युच्चयमाह -तद्भावेऽपीत्यादिना । १५ तद्भावेऽपि दृश्य- विकल्प्यार्थैकीकरणभावेऽपि । किमित्याह- दृश्यस्य -स्खलक्षणस्य विकल्प्येन - सामान्यलक्षणेन एकीकृतत्वात् कारणात् विकल्पमात्रतापत्तेः हेतोः तदवगमात् - विकल्प्यावगमात् कारणाद् वस्तुनि - स्खलक्षणे अप्रवृत्तिः एव, तदनवगमादित्यर्थः । पराकूतमाह न वै इत्यादिना । न वै - नैव स्वविभिन्नदृश्यस्य, विकल्प्यापेक्षया विकल्प्यात्मनो विभिन्नदृश्यस्येत्यर्थः । विकल्प्ये२० नात्मसात्करणमेकीकरणमिह गृह्यते, अपि त्वस्यैव - विकल्प्यस्य अध्यवसिततद्भावता - विनिश्चितदृश्य भावता । एतद्भावनायैवाह - तथाहीत्यादि । तथाहीति पूर्ववत् । विकल्पयमेव दृश्यमित्यध्यवस्य - विनिश्चित्य प्रवर्तत इति । एतदाशङ्कयाह-एतदपि - अनन्तरोदितमनालोचितमनोहरम् । कुत इत्याहतस्यैव - विकल्प्यस्य अध्यवसिततद्भावताऽसिद्धेः । असिद्धिश्च अतदाभेन२५ अतदाकारेण विकल्प्येन तद्भावाध्यवसायविरोधात् दृश्यभावाध्यवसायविरोधात् । विरोधश्व अतिप्रसङ्गात् । अतिप्रसङ्गश्च नीलाकारबोधेन पीताध्यवसायापत्तेः अध्यवसिततद्भावतया । इति - एवमसमञ्जसत्वेन व्यवहारोच्छेदप्रसङ्गात् 'एतदप्यनालोचितमनोहरम्' इति ॥
दूषणान्तरमाह किश्चेत्यादिना । किञ्च कः खलु - प्रमाता विकल्प्यमेव ३० दृश्यमित्यध्यवस्यति ? । विकल्प एवेति चेत्, एतदाशङ्कयाह - न, तंत्रविकल्पे सामान्यावभासनात्, अन्यथा - दृश्याध्यवसाये सति विकल्प
१ 'विकल्पो नैकी ०' इति ग-पाठः । २ ' दृश्यस्याख ०' इति ङ-पाठः ।