________________
अधिकारः]
खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
३२१
परिनिष्ठित आन्तरः, तस्माच्च धर्मिणो व्यावृत्तयस्तत्त्वान्यत्वेनानिर्वचनीया इति न, इत्थमपि ततो वस्तुनि प्रवृत्त्यनुपपत्तेः, तत्प्रतिपत्त्यभावात्, एवमपि प्रवृत्तावतिप्रसङ्गात्, आन्तरार्थ एव : शब्दस्य चरितार्थत्वादिति । दृश्यविकल्प्याथैकीकरणाद् वस्तुनि प्रवृत्तिरिति चेत्, न, तदेकीकरणासिद्धेः, दृश्य-विकल्प्ययोरत्यन्तभिन्नत्वात्, साधायोगात् , एकस्योभयानुभवितुरभावात् तदा द्वयदर्शनादर्शनविकल्पानुपपत्तेः । आद्यपक्षे भेदेनैवोभयप्रतिपत्तेः किमेकीकरणेन ? चरमपक्षे तु तदप्रतिपत्तेः कथं तेनैवैकीकरणम् ?"
(स्त्रो० व्या०) अव्यवधानेन, अपि तु विकल्पपरिनिष्ठित आन्तरः शब्दार्थः। तस्माच धर्मिणः-आन्तराद् विकल्पपरिनिष्ठितात् । किमित्याह-व्यावृत्तयस्तत्त्वान्यत्वेनानिर्वचनीया इति कृत्वा न व्यर्थस्तत्प्रतिक्षेपाभिनिवेश इति क्रिया । एतदाशङ्कयाह-न, इत्थमपि ततः प्रक्रमाच्छन्दात् । किमित्याह-वस्तुनि प्रवृ. त्यनुपपत्तेः । अनुपपत्तिश्च तत्प्रतिपत्त्यभावात्-वस्तुप्रतिपत्त्यभावात् ततः शब्दादिति । एवमपि-ततः प्रतिपत्त्यभावेऽपि प्रवृत्ती अभ्युपगम्यमानायां किमित्याह-अतिप्रसङ्गात् सर्वत्र प्रवृत्त्यापत्त्या । आपत्तिश्च सर्वत्र प्रतिपत्त्यभावेन । प्रतिपत्त्यभावश्च आन्तरार्थ एव शब्दस्य चरितार्थत्वादिति भावनीयम् । दृश्येत्यादि । दृश्यविकल्प्याथैकीकरणात्-स्व-सामान्यलक्षणैकीकरणात् वस्तुनि-२० बाह्ये स्खलक्षणे प्रवृत्तिः । इति चेत्, एतदाशझ्याह-नेत्यादि । न-नैतदेवम् । कुत इत्याह-तयोः-दृश्यविकल्प्ययोः एकीकरणासिद्धेः। असिद्धिश्च दृश्यविकल्प्ययोः-स्वसामान्यलक्षणयोः अत्यन्तभिन्नत्वात्। अत्यन्तभिन्नत्वे साधायोगात्, साधर्म्यं चैकीकरणनिमित्तमित्यभिप्रायः । तथा एकस्येत्यादि । एकस्यकस्यचिदुभयानुभवितुः-स्व-सामान्यलक्षणानुभवितुः प्रमातुरभावात् परपक्षे ।२५ तथा तदेत्यादि । तदा-तस्मिन्नेकीकरणकाले द्वयं-दृश्य-विकल्प्याख्यं तस्य दर्शनादर्शने ते एव विकल्पो एताभ्यामनुपपत्तिः-अघटमानता ततस्तदेकीकरणासिद्धिः। एतदुक्तं भवति-दृश्य-विकल्प्याथैकीकरणकाले तव्यदर्शनमदर्शनं वा स्यात् । तत्र आद्यपक्षे-द्रयदर्शनपक्षे किमित्याह-भेदेनैव-असङ्कीर्णत्वेनैव उभयप्रतिपत्तेः, प्रक्रमात् दृश्य-विकल्प्यप्रतिपत्तेः, किमेकीकरणेन प्रयोजनाभावात् ? न ३० किञ्चिदित्यर्थः । चरमपक्षे तु-द्वयादर्शनपक्षे तु किमित्याह-तदप्रतिपत्ते:१'तथा' इत्यधिकः क-पाठः । २ द्रष्टव्यं ३२० तमं पृष्टम् ।
अनेकान्त. ४१