________________
३२०
अनेकान्तजयपताकाख्यं प्रकरणम् [चतुर्थ
(मूलम्) भिज्ञादिति । अवस्तुत्वे तु तदभिधाने न किश्चिदुक्तं स्यात्, कथमेवमवस्तुत्वप्रतिपत्तिपुरस्सरा तत्प्रवृत्तिः । न च तत्प्रतिपत्तावर्थतो ५ वस्तुप्रतिपत्तिः, तुच्छत्वेन तस्यैवाप्रतिपत्तेः, अन्यथाऽवस्तुत्वविरोधात्, तस्य तेनाप्रतिबन्धात्, सामर्थ्यासिद्धेश्च । अव्यतिरिक्तत्वे वस्तुन एवापोहत्वात् तदभिधायकत्वं शब्दानामिति व्यर्थस्तत्प्रतिक्षेपाभिनिवेशः॥
आह-न व्यर्थः, बाह्य स्खलक्षणं पुरोधाय व्यावृत्ति-व्यावृत्ति१० मतोस्तत्त्वाभिधानात् । न च तच्छब्दार्थः साक्षात्, अपि तु विकल्प
(खो० व्या०) व्यवहारानभिज्ञात्-एकान्तजडादिति । एवमिहोपलक्षणमपोहस्तदभिधाने कथं तदुपलक्षिते वस्तुनि प्रवृत्तिरित्यर्थः ॥
द्वितीयं विकल्पमधिकृत्याह-अवस्तुत्वे पुनरपोहस्य तदभिधाने-अवस्त्वभि१५धाने । किमित्याह-न किञ्चिदुक्तं स्यात्-भवेत् , कथमेवमवस्तुप्रतीति
पुरस्सरा तत्प्रवृत्तिस्तस्मिन्-वस्तुनि प्रवृत्तिः । न च तत्प्रतिपत्ती-अपोहप्रतिपत्तौ सत्यां शब्देन अर्थतः-अर्थापत्त्या तत्प्रतिबन्धान्यथाऽनुपपत्तिलक्षणया वस्तुप्रतिपत्तिः स्वलक्षणप्रतिपत्तिः । कुत इत्साह-तुच्छत्वेन हेतुना तस्यैवअपोहस्य अप्रतिपत्तेः शब्देन । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमन२० भ्युपगमेऽवस्तुत्वविरोधात् प्रक्रमादपोहस्य, तथा तस्य-तुच्छस्यापोहस्य तेनवस्तुना सह अप्रतिबन्धात् तादात्म्याद्ययोगेन, तथा सामर्थ्यासिद्धेश्व तस्यैव तुच्छस्यापोहस्य । अनेन तद्व्यतिरिक्तविकल्पदोषोऽवसेयः । यदाह-अव्यतिरिक्तत्व इत्यादि । अव्यतिरिक्तत्वे 'तुच्छापोहस्य वस्तुनः अभ्युपगम्यमाने' इति प्रक्रमः । किमित्याह-वस्तुन एवापोहत्वात् कारणात् तदभिधायकत्वं-वस्त्वभि२५ धायकत्वं शब्दानामिति-एवं व्यर्थः-निष्फलः तत्प्रतिक्षेपाभिनिवेश:
शब्दानां वस्त्वभिधायकत्वप्रतिक्षेपाभिनिवेशः ॥ __ आहेत्यादि । आह परः-न व्यर्थो यथोदितोऽभिनिवेशः । कुत इत्याह-बाह्य खलक्षणं पुरोधाय-अग्रतः कृत्वा व्यावृत्ति-व्यावृत्तिमतोस्तत्त्वाभिधानात्-एकत्वाभिधानाद् भवता । न च तच्छब्दार्थ:-बाह्यं स्खलक्षणं साक्षात्
१ 'प्रतिषेधाभिनिवेशः' इति क-पाठः। २ 'शब्देन' इति पाठो घ-पुस्तके नास्ति ।