________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् ३१९
(मूलम्) वाचः कस्याश्चिदपि, खवाच्यनिष्ठत्वात् , तव्यतिरेकेण तदप्रवृत्तेः, सङ्केतवशाच शब्दात् प्रतीतिस्तस्य चापोहमन्तरेणान्यत्र कर्तुमशक्यत्वात् , वस्तूनामानन्त्यादु व्यवहारानुपयोगादिति तद्वाच्यतैव ५ इति । एतदप्ययुक्तम् , भावार्थशून्यत्वेन वाङ्मात्रत्वात्, अन्यापोहाभिधायकत्वेऽपि वस्तुनि प्रवृत्त्यनुपपत्तेः, तस्य ततो व्यतिरिक्ताव्यतिरिक्तविकल्पदोषप्रसङ्गात् । व्यतिरिक्तत्वे, स च वस्तु अवस्तुवा, वस्तुत्वे, अपरनामा सामान्यवादस्तथा च तद्वारायाता अनिवारितप्रसरा दोषाः । न च तदभिधानेऽपि वस्तुनि प्रवृत्तिः । न हि कश्चिद् १० दण्डं छिन्द्धि इत्युक्तो दण्डिनं छिनत्त्यन्यत्र शब्दार्थव्यवहारान
(खो० व्या०) स्थादनृतार्थता वाचः कस्याश्चिदपि । कुत इत्याह-स्ववाच्यनिष्ठत्वाद वाचः प्रतिबन्धभावेन तद्व्यतिरेकेण-स्ववाच्यव्यतिरेकेण तद्प्रवृत्तेः-वाचोऽप्रवृत्तेरिति । तथा सङ्केतवशाच शब्दात् प्रतीतिः, लोके तथादर्शनात् । तस्य १५ च-सङ्केतस्य अपोहमन्तरेणान्यत्र-वस्तुनि कर्तुमशक्यत्वात् , अशक्यत्वं च वस्तूनामानन्त्यात् प्रतिवस्तु समयाकरणेन व्यवहारानुपयोगात् सङ्केतस्य इति-एवं तद्वाच्यतैव-अपोहवाच्यतैव इति । एतदाशङ्ग्याह-एतदप्ययुक्तं यदनन्तरमुक्तम् । कुत इत्याह-भावार्थशून्यत्वेन हेतुना वामात्रत्वात् , तस्य । वाङ्मात्रत्वं चान्यापोहाभिधायकत्वेऽपि शब्दस्य, किमित्याह-वस्तुनि प्रवृ-२० त्यनुपपत्तेः। अनुपपत्तिश्च तस्य-अपोहस्य ततः-वस्तुनः व्यतिरिक्ताव्यतिरिक्तविकल्पाभ्यां यो 'दोषस्तत्प्रसङ्गात् । एनमेवाह-व्यतिरिक्तत्वे वस्तुनः अपोहस्य । किमित्याह-स:-अन्यापोहः वस्तु अवस्तु वा। किञ्चातः? उभयथाऽपि दोष इत्याह-वस्तुत्वेऽपोहस्य व्यतिरिक्तस्य अपरनामा सामान्यवादस्तथा च-एवं च सति तद्वारायाता:-सामान्यद्वारायाताः अनिवारितप्रसरा २५ दोषा वृत्तिविकल्पादिजनिताः । उपचयमाह न चेत्यादिना । न च तदभिधानेऽपि-अपोहाभिधानेऽपि शब्देन वस्तुनि प्रवृत्तिः, तस्य ततोऽन्यत्वात् । एतदेव 'निदर्शनेनाह न हीत्यादिना । न हि कश्चित्-माणवकः दण्डं छिन्द्धि इत्युक्तो विशेषेण दण्डिनं छिनत्ति तदुपलक्षितम् , अन्यत्र शब्दार्थ
१ 'बन्धाभावेन' इति :-पाठः । २ 'वाचाऽप्रवृत्ते. इति ङ-पाठः। ३ 'सङ्केताकरणेन' इति घ-पाठः । ४ 'दोषस्तस्य प्रसङ्गात्' इति घ-पाठः। ५ 'शून्यापोहः' इति घ-पाठः । ६ निदर्शयन्नाह' इति ध-पाठः ।