________________
३१८
अनेकान्तजयपताकाख्यं प्रकरणम
[चतुर्थः (मूलम्) स्यादेतत् अन्यापोहाभिधायकाः शब्दा इति ततस्तं प्रतिपद्यते, ततश्च दृश्य विकल्प्यावावेकीकृत्य तबलात् प्रवर्तते, न तु शब्दादू ५वस्त्वेव प्रतिपद्येति, तस्य ततोऽनवगतेः, प्रतिबन्धाभावात्, तादात्म्य-तदुत्पत्त्यनुपपत्तेः, अनेकदोषप्रसङ्गात्, प्रतिबन्धमन्तरेणाप्यन्यतोज्यावगतावपन्यायः। परमार्थेकतानत्वे च शब्दानामनिमित्ता तथाऽभावात् , अतीता-जातयोश्चासत्त्वात्, न च स्यादनृतार्थता न स्यात् प्रवृत्तिरर्थेषु चित्रतत्रान्तरगतेषु, परस्परविरोधित्वेन सर्वेषां
(स्वो० व्या०) उदकादिवदनलस्यापि तच्छब्देनानभिलाप्यत्वात् । एतदविशेषतस्तत्रापि प्रतीत्याद्यापत्तेरतिप्रसङ्गः ॥ ___ स्यादेतदित्यादि । स्यादेतत्-अथैवं मन्यसे-अन्यापोहाभिधायकाः
शब्दा इति कृत्वा ततः-शब्दात् तम्-अन्यापोहमन्याभावं प्रतिपद्यते । १५ ततश्च दृश्य विकल्प्यावौँ-स्वसामान्यलक्षणरूपौ एकीकृत्य तबलात्एकीकरणसामर्थ्यात् प्रवर्तते, न तु शब्दांद् वस्त्वेव प्रतिपद्य प्रवर्तत इति। कुत इत्याह-तस्य-वस्तुनः ततः--शब्दादनवगतेः-अपरिच्छेदात् । अनवगतिश्च प्रतिबन्धाभावात् वस्तु-शब्दयोः। प्रतिबन्धाभावश्च तादात्म्य-तदुत्पत्त्यनुपपत्तेः वस्तु-शब्दयोरेव । इयं च अनेकदोषप्रसङ्गात् । तथाहि-वस्तु-शब्द२० योस्तादात्म्ये क्षुरिका-ऽनला-ऽचलादिशब्दोच्चारणे वदनपाटन-दाह-पूरणप्रसङ्गः । तदुत्पत्तौ तु-वस्तुनः शब्दोत्पत्तौ वालीकस्यापि प्रथमपनसदर्शने तच्छब्दोच्चारणप्रसङ्गः। शब्दाद् वा वस्तूत्पत्तौ विश्वादरिद्रता, शब्दादेव कटकादिभावादित्यनेकदोषप्रसङ्गः । प्रतिवन्धमन्तरेणापि वस्तु-शब्दयोरन्यतः-शब्दादन्यावगतौ-वस्त्ववगतौ किमित्याह-अपन्यायः, अतिप्रसङ्ग इत्यर्थः । दोषान्तरमाह-परमार्थकतान-. २५ त्वे च-परमार्थैकनिष्ठत्वे च शब्दानामनिमित्ता न स्यात् प्रवृत्तिरर्थेषु । किंविशिष्टेष्वित्याह-चित्रतन्त्रान्तरगतेषु प्रधानेश्वरादिषु । किमित्यत आह-परस्परविरोधित्वेन हेतुना सर्वेषाम् अर्थानां तथा-जगद्धेतुत्वेन अभावात् । तथाहि-यदि प्रधानं जगद्धेतुः, न तहीश्वर इत्यादि भावनीयम् । तथा अतीताsजातयोश्वापि वस्तुनोः असत्वात् कारणात् न स्यात् प्रवृत्तिरिति । तथा नच
१ 'प्रतिपय प्रवर्तते तस्य' इति घ-पाठः। २ 'तथा च न स्याद०' इति क-कु-पाठः । ३ "विकल्पावों' इति क-पाठः। ४ 'खलक्षणसामान्यरूपौ' इति घ-पाठः। ५ 'वाणीकस्यापि' इति क-पाठः । ङ-पाठस्तु 'वाल्हीकस्यापि' इति । ६ 'प्रकटादिभावा०' इति घ-पाठः। ७ तथा च न स्याद०' इति घ-पाटः।