________________
चतुर्थोऽधिकारः
तथा यथोक्तम्-एवमभिलाप्यानभिलाप्यमपि विरोधबाधितत्वादेवानुद्धोष्यम्' इत्याद्रि, तदप्ययुक्तम् , विरोधासिद्धः अभिलाप्यानभिलाप्यस्यैव प्रमाणसिद्धत्वात्, तथाव्यवहारोपलब्धेः, ५ अन्यथा व्यवहारोच्छेदप्रसङ्गात् । तथाहि-यदि तदेकान्तेनैवानभिलाप्यमभ्युपगम्यते, कथं तर्हि तथाविधशब्दात् तथाविधार्थप्रतीत्यादि ? दृश्यते चानलाद्यानयेत्युक्ते तत्प्रतीतिपुरस्सरा केषाश्चित् धूमध्वजादौ प्रवृत्तिः तत्समासादनं समासादिते तथानिवेदन मिति कथञ्चिदभिलाप्यसिद्धिः, अन्यथा तदनुपपत्तिः, अतिप्रसङ्गात् ॥ १०
(स्खो० व्या०) साम्प्रतं चतुर्थ आरभ्यते । तत्र चादावेवेदमाह-तथा यच्चोक्तमित्यादि । तथा यच्चोक्तं मूलपूर्वपक्षग्रन्थे -एवमभिलाप्यानभिलाप्यमपि वस्तु विरोध. बाधितत्वादेवानुद्धोष्यमित्यादि । तत् किमित्याह-तदप्ययुक्तम् । कुत इति आह-विरोधासिद्धेः । असिद्धिश्च अभिलाप्यानभिलाप्यस्यैव वस्तुनः १५ प्रमाणसिद्धत्वात् । प्रमाणसिद्धत्वं च तथाव्यवहारोपलब्धे:-अभिलाप्यानमिलाप्यतया अर्थक्रियासिद्धेः । अन्यथा-अभिलाप्यानभिलाप्यतां विहाय वस्तुनो व्यवहारोच्छेदप्रसङ्गात् । एतत्प्रदर्शनार्यवाह-तथाहीत्यादि । तथाहीत्युपप्रदर्शने । यदि तत्-वस्तु एकान्तेनैवानभिलाप्यमित्यभ्युपगम्यते, कथं तर्हि तथाविधशब्दात्-सांव्यवहारिकादनलादिरूपात् तथाविधार्थप्रतीत्यादि २० तथाविधः-तद्वाच्योऽनलार्थस्तत्प्रतीत्यादि कथम् ? । आदि शब्दात् प्रवृत्ति-तत्समासादन-निवेदनग्रहः । इंश्यते चानलाद्यानयेत्युक्ते सति तत्प्रतीतिपुरस्सरा-अनलप्रतीत्यनुयायिनी केषाञ्चित्-प्रमातॄणां तथाविधक्षयोपशमयुक्तानां धूमध्वजादौ अर्थे प्रवृत्तिस्तद्विषया । तथा तत्समासादनं-धूमध्वजसमासादनं समासादिते सति तथानिवेदनम्-'अयमसौ यस्त्वयोक्तोऽनलः स २५ आनीतः' इत्यादि । इति-एवं कथञ्चिदभिलाप्यसिद्धिः। अन्यथा-एवमनभ्युपगमे तदनुपपत्तिः-तत्प्रतीत्याधनुपपत्तिः । कुत इत्याह-अतिप्रसङ्गात्
१ अथ चतुर्थः परिच्छेदः' इति घ-पाठः। २ तथा च यथोक्त०' इति क-पाठः । ३-४ २७ 'तमे पृष्ठे । ५ 'लाप्यमभ्युप०' इति ङ-पाठः। ६ 'प्रवृत्तिवत्समा०' इति -पाठः । ७ 'दृश्यते अनला०' इति घ-पाठः ।