________________
३१६
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) अमुख्यगुणभावेन तत्वतस्तूभयात्मकम् ॥ ६॥ एकान्तैक्ये तु भावानां कार्याभेदादनिश्चितिः । नैकस्मादुत्तरो भावो ज्ञानं चेति सुनीतितः ॥७॥ हेत्वभेदान्न चाज्ञाते तध्वनिः सम्प्रवर्तते ।
एवमेकखभावत्वे उपपन्नौ न धीध्वनी ॥८॥ इत्यादि कृतं विस्तरेण ॥
इति तृतीयोऽधिकारः॥३॥
(खो० व्या०) भावसिद्धेः, अन्यथाऽयोगादित्युक्तप्रायम् । ततश्च अमुख्यगुणभावेन तत्त्वतः तु उभयात्मकं तत् ।६। परपक्षे दोषमाह-एकान्तैक्ये तु-एकान्तैकखभावत्वे पुनर्भावानां-दध्यादीनां कार्याभेदात् कारणादनिश्चितिः। एतदेवाह
नैकस्मात्-एकवभावादुत्तरो भावो ज्ञानं चेति सुनीतितः।७। सुनीतिमेव १५ आह-हेत्वभेदात् तदेकस्वभावत्वेन न चाज्ञाते तस्मिन् तध्वनिः-दध्यादि
ध्वनिः सम्प्रवर्तते, अतिप्रसङ्गात् 'ज्ञानं च ततोऽन्यभावेन न सङ्गतम्' इति भावितमेव । एवमेकस्वभावत्वे वस्तुन उपपन्नौ न धीध्वनी द्वयनिमित्ताभावेन ।८१ इत्यादि । ततश्च भेदसंहारवादचिन्ताऽभाव एव परमते । कृतं विस्तरेण ॥ इत्यनेकान्तजयपताकाटीकायां तृतीयोऽधिकारः ।।
(विवरणम्) (१६) ज्ञानं च ततोऽन्यभावेन न सङ्गतमिति । ज्ञानं च दधीत्याद्युल्लेखवन्निर्विकल्पकं ततः-दध्यादेः सकाशान्न सङ्गतम् । केनेत्याह-अन्यभावेन अन्यस्यज्ञानापेक्षया भिन्नस्यातनध्यादिक्षणस्यैव, ततो दध्यादेर्भावेन-उत्पादेन एकस्वभावाद् दधिलक्षणाद् दधिलक्षणे समुत्पन्ने कथं तत्क्षणे समुत्पन्ने कथं तत एव खंगो२५ चरज्ञानोत्पादः स्यात् । न हि येनैव स्वभावेनासौ अग्रेतनक्षणं जनयति तेनैव ज्ञानमित्यादि चर्चनीयमिति ॥
इति श्रीमुनिचन्द्रसूरिविरचितेऽनेकान्तजयपताकोद्योत
दीपिकाटिप्पणके सामान्यविशेषवादाधिकारः ॥
२०
१-३ अनुष्टुप् । ४ 'स्वभावाद् भावादुत्तरो' इति उ-पाठः। ५'इति' इत्यधिको घ-पाठः। ६ 'पताकायां टीकायां' इति क-पाठः । ७ 'समाप्तः' इत्यधिकः क-पाठः । ८ कल्पना (?) ततो' इति ख-पाठः। ९ 'सङ्गते' इति च-पाठः । १० 'स्वगौरवज्ञानो.' इति च-पाठः ।