________________
१०
१५
अधिकारः] स्वोपनव्याख्यामुनिचन्द्रीयविवरणयुतम् ३१५
(मूलम्) तथा चोक्तम्
"वस्तुनोऽनेकरूपस्य नेन्द्रियात् सर्वथा गतिः। चित्रावरणयोगेन प्रमातुः किन्तु देशतः ॥१॥ एवं च विप्रकृष्टस्य सन्निकृष्टस्य चैकदा। उष्ट्रादौ बुद्धिभेदेनानेकरूपत्वसंस्थितिः॥२॥ अप्रधानीकृतौष्ट्यादिविशेष प्रतिपद्यते। विप्रकृष्टः पुमान् सत्त्वं वस्त्रादौ रक्ततादिवत् ॥ ३ ॥ सन्निकृष्टोऽपि चौष्ट्यादि तूर्णं सत्त्वोपसर्जनम् । रक्तादाविव वस्त्रादि विशिष्टं तीव्रवीर्यतः॥४॥ अप्रधानं च यत् प्रोक्तमुष्ट्रत्वाद्यत्र तत् तथा। प्रतिपत्तारमाश्रित्य ने तु तत्त्वव्यपेक्षया ॥५॥ अन्योन्यव्याप्तिरूपेण द्वयोस्तद्भावसिद्धितः।
. (स्वो० व्या०) निगमनम् । तथा चोक्तमित्यादिना ज्ञापकमाह-वस्तुनः-दध्यादेरनेकरूपस्य सद्रव्यादिधर्मापेक्षया नेन्द्रियात्-चक्षुरादेः सर्वथा गतिः सर्वधर्मात्मत्वेन परिच्छित्तिः । कुत इत्याह-चित्रावरणयोगेन हेतुना प्रमातु:-पुरुषस्य, किन्तु देशतः-देशेनेन्द्रियाद् गतिः।१। एवं चेत्यादि । एवं च सति विप्रकृष्टस्य-दूरस्थस्य प्रमातुः सन्निकृष्टस्य च-आसन्नस्य च एकदा-एकस्मिन् काले उष्ट्रादौ २० विषये 'आदि'शब्दाद् दधिपरिग्रहः, बुद्धिभेदेन सदौष्ट्रयादिरूपेण हेतुना; किमित्याह-अनेकरूपत्वसंस्थितिः सदौष्ट्रयादिधर्मापेक्षया । २ । एवमनेकरूपे वस्तुनि किमित्याह
"अप्रधानीकृतौष्ट्यादिविशेष प्रतिपद्यते ।
विप्रकृष्टः पुमान् सत्त्वं वस्त्रादौ रक्ततादिवद् ॥" इति निगदसिद्धमेव । ३। सन्निकृष्टोऽपि चौष्ट्यादि तूर्ण-शीघ्रं सत्त्वोपसर्जनं रक्तादाविव वस्त्रादि विशिष्टं पटादिवत् तीब्रवीर्यतः प्रतिपद्यत इति । ४ । अप्रधानं च यत् प्रोक्तमुष्टत्वायत्र-अधिकारे तत् तथा प्रतिपत्तारमाश्रित्य उक्तलक्षणम्, न तु तत्त्वव्यपेक्षया ।५ किमित्यत आहअन्योन्यव्याप्तिरूपेण हेतुना द्वयोः-सदौष्ट्रयायोः तद्भावसिद्धितः-सदुष्ट्र-३०
१-४ अनुष्टुप् । ५ 'ननु' इति क-पाठः। ६ अनुष्टुप् । ७ 'अन्योन्यं व्याप्ति०' इति कपाठः। ८ सद्व्यत्वादिः' इति घ-पाठः। ९ अनुष्टुप् ।