________________
३१४
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) एकखभावायाः तद्भेदेऽपि ग्रहणभेदासिद्धेः । न हि नीलसंवेदनमन्यथा वनीलत्वमधिगच्छति, अन्यथा च तद् योगीति, अनेकस्व. ५ भावतापत्तेः । अत एकखभावस्य वस्तुनः सर्वेषां तुल्यं ग्रहणमग्रहणं चेति सन्न्यायरणस्तम्भः॥
न च तत्र पारम्पर्येण तत्तत्कार्यसाधनशक्तिनिश्चयः, तथा:प्रतीतेः, अस्ति च तत्कायंग्रहीतुर्थोगिनः, इतरथा योग्य-ऽयोगिनोस्तत्र विशेषाभावप्रसङ्गात्, तथा च दृष्टेष्टविरोधः । इति न ह्यर्थ१० सन्निधिरित्येवायोगिनां सर्वाकारमेव तदवगम इति कृतं प्रसङ्गेन ।
(खो० व्या०) तस्याः-दान-हिंसादिविरतिचेतनाया एकखभावत्वविरोधात् । ग्राहकभेदात् कारणात् अविरोधः । इति चेत्, एतदाशङ्कयाह-न, एकखभावाया:-दानहिंसादिविरतिचेतनायाः तद्भेदेऽपि-ग्राहकभेदेऽपि ग्रहणभेदासिद्धः। एतदेव १५ निदर्शनान्तरेण भावयन्नाह-नहीत्यादि। न हि नीलसंवेदनमन्यथा वनीलत्वमधिगच्छति अनीलत्वादित्वेन, अन्यथा च तत्-नीलत्वं योगीति । कुतो न हीत्याह-अनेकखभावतापत्तेः । सर्वोपसंहारमाह-अत एकखभावस्य वस्तुनः-पुरुषदानादिचेतनादेः सर्वेषां-पुत्रादीनां तुल्यं ग्रहणमग्रहणं
चेति सन्न्यायरणस्तम्भः॥ २० न चेत्यादि । न च तत्र-एकस्वभावे वस्तुनि पारम्पर्येण-प्रबन्धवृत्त्या
तत्तत्कार्यसाधनशक्तिनिश्चयः-तत्तत्कार्यमुत्तरोत्तरक्षणरूपम् , तस्य साधनशक्तयः पारम्पर्येण तत्तत्कार्यसाधनशक्तयः, तासु निश्चयो नैव । कुत इत्याह तथाऽप्रतीतेः। अस्ति च तत्र पारम्पर्येण तत्तत्कार्यसाधनशक्तिनिश्चयः । कस्येत्याह-तत्काय॑ग्रहीतुः तस्य-एकस्वभावत्वाभिमतस्य वस्तुनः पुरुषदान२५ हिंसादिविरतिचेतनादेः कायं-सम्पूर्णत्वं तस्य ग्रहीता-परिच्छेत्ता तस्य तत्कायंग्रहीतुर्योगिनः, तथाऽनागतव्याकरणप्रामाण्यात् । इत्थं चैतदङ्गीकर्तव्यमित्याहइतरथा योग्यऽयोगिनोस्तत्र-वस्तुनि विशेषाभावप्रसङ्गात् 'परिज्ञानं प्रति' इति सामर्थ्य तथा च दृष्टेष्टविरोधः। इति एवं न ह्यर्थसन्निधिरित्येवायोगिनां सर्वाकारमेव तदवगमः-वस्त्ववगम इति कृतं प्रसङ्गेनेति महा
१'भावापत्तेः' इति क-पाठः । २ 'तत्कार्य.' इति घ-पाठः ! ३ स्तत्रैव वस्तुनि इति क-पाठः।