________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) नुमानम्, दान-हिंसादिविरतिचेतनायां तु इष्टवर्गादिफलस्यात्यन्तमनुपलम्भादयुक्तमिति । न, अनुपलम्भेऽपि सम्भवात्, इष्टफलभावेऽपि विरोधाभावात् । किमनेन? । साधकमत्र प्रमाणं ५ नास्तीति चेत्, बाधकेपि समानःप्रसङ्गः । अत एव संशयोऽस्त्विति चेत्, न, भवत्पक्षे तदयोगात् । कथमयोग इति चेत्, तत्कायअहणतो याथात्म्यनिश्चयापत्तेः । आवरणदोषादनिश्चय इति चेत्, किं ततस्तस्याः क्षुण्णमिति वाच्यम् । अस्पष्टग्राह्यतेति चेत्, न, योगिनोऽपि तथाग्रहणापत्तेः । न तस्यावरणमिति चेत् , किं तेन ? १० अन्यत एवं ग्राह्यभेदसिद्धेः। अयोगिन एव सः,न योगिन इति चेत्, न, तदेकखभावत्वविरोधात् । ग्राहकभेदादविरोध इति चेत्, न,
__ (खो० व्या०) मूषिकाविषादिफलदर्शनाद् युक्तं तच्छत्त्यनुमानं-मूषिकाऽलर्कविषशक्त्यनुमानम् , दान-हिंसादिविरतिचेतनायां तु प्रस्तुतायां इष्टस्वर्गादिफलस्य १५ अत्यन्तमनुपलम्भात् कारणात् अयुक्तमिति । एतदाशझ्याह-न, अनुपलम्भेऽपि सति सम्भवात् इष्टफलस्य । सम्भवश्व इष्टफल भावे-खर्गादिभावे विरोधाभावात् । किमनेन-विरोधाभावेन ? । साधकमत्र-स्वर्गादौ प्रमाणं नास्ति । इति चेत्, एतदाशझ्याह-बाधकेऽपि समानः प्रसङ्गः, तदपि नास्त्येवेत्यर्थः । अत एव कारणात् संशयोऽस्तु । इति चेत्, एतदाशयाह-न, २० भवत्पक्षे-भवदभ्युपगमे तदयोगात्-संशयायोगात् । कथमयोगः । इति चेत्, एतदाशङ्कयाह-तत्काय॑ग्रहणतः-दान-हिंसादिविरतिचेतनाकारूयंग्रहणेन याथात्म्यनिश्चयापत्तेः। आवरणदोषादनिश्चय इति चेत्, एतदाशङ्कयाह-किं ततः-आवरणात् तस्या:-दान-हिंसादिविरतिचेतनायाः क्षुण्णमिति वाच्यम् । अस्पष्टग्राह्यतेति चेत्, न, योगिनोऽपि तथा-अस्पष्ट- २५ ग्राह्यतया ग्रहणापत्तेः। न तस्य-योगिनः आवरणम् । इति चेत्, एतदाशक्याह-किं तेन-आवरणेन ? अन्यत एव-अन्यसम्बन्धिन आवरणात् ग्राह्यभेदसिद्धेः ततस्तस्यास्पष्टग्राह्यतोपगमात् । अयोगिन एव सः-ग्राह्यभेदः, न योगिनः। इति चेत्, एतदधिकृत्याह-न, तदेकखभावत्वविरोधात्-न
१'काला ग्रहण' इति क-पाठः। २'क्षणमिति' इति घ-पाठः। ३ 'आयत्यामनु' इति घ-पाठः। ४ 'क्षुणमिति' इति घ-उ-पाठः ।
अनेकान्त, ४०