________________
२१२
अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीयः (मूलम्) त्ताभेदेन तत्त्वापत्तेः, अन्यथा कारूयेनैकत्रोपयोगायोगादिति । न
च नास्त्येव तत्राधिकृतशक्तिः, आयत्यां फलभावात्, व्यवहिता५ नामपि हेतोः फलानामुत्पत्तिदर्शनात् , मूषिकाऽलर्कविषविकारवत् ॥ __ आह-मूषिकाविषादी आयत्यां तत्फलदर्शनाद् युक्तं तच्छत्त्य
(स्वो० व्या०) पुत्रादिज्ञानसहकारित्वेन हेतुना तत्त्वापत्तेः-तत्सहकारिस्वभावपुत्रादिविज्ञानत्वापत्तेः । इत्थं चैतदङ्गीकर्तव्यभू, अन्यथा-अन्यत्राप्यध्याप्यादिविज्ञानसहकारित्वा१० भ्युपगमे कार्येनैकत्र-पुत्रादिविज्ञाने उपयोगायोगादिति भावनीयमेतत् । न चेत्यादि । न च नास्त्येव तत्र-दान-हिंसादिविरतिचेतनायां अधिकृतशक्ति:-अभ्युदयादिसाधनशक्तिः । किं तर्हि ? अस्त्येव । कुत इत्याह-आयत्याम्आगामिनि काले फलभावात्-अभ्युदयादिफलभावात् । एतत्समर्थनायाह-व्यवहितानामपि फलानां क्षणप्रबन्धेन हेतोः सकाशाद् उत्पत्तिदर्शनात्, १५ मूषिकाऽलर्कविषविकारवत्, मूषिकाऽलर्कविषं ह्यायत्यां विकारं दर्शयति इति लौकिकमेतत् ॥ __ आह परः-मूषिकाविषादी आयत्यां-प्रावृडादौ तत्फलदर्शनात्
(विवरणम्) (९) पुत्रादिज्ञानसहकारित्वेनेति । पुत्रादिज्ञानस्य सहकारी पुत्रादिज्ञानसह२.कारी अधिकृतपुरुषलक्षणः पदार्थः, स एव सहकारी यस्याध्याप्यादिज्ञानस्य तत् तथा तस्य भावः-तत्त्वं तेन ॥
(९-१०) तत्सहकारिस्वभावपुत्रादिविज्ञानत्वापत्तेरिति । सः-विवक्षितपुरुषलक्षणः सहकारी यस्यासौ तत्सहकारी स स्वभाव:-स्वरूपं यस्य तत् तथा तच तत्पुत्रादिविज्ञानं च तस्य भावः-तत्त्वं तस्याप्तिः-प्राप्तिस्तस्याः । अयमत्राशय:२५ येनैव स्वभावेन जनकः पुत्रज्ञाने सहकारिभावं समासादितवान् तेनैवाध्याप्यविज्ञानेऽपि, अतो द्वयोरपि ज्ञानयोरेकत्वापत्तिरनिवारितप्रसरा, एकस्वभावात् सहकारिण उत्पत्तेरिति ।।
(१६) मूषिकाऽलर्कविषविकारवदिति । अत्र मूषिका प्रतीता । अर्लकस्तु रोगाघ्रासश्च ॥
1ोपयोगात् , तेन च' इति क-पाठः । २ 'उत्पत्तेरिव' इति ख-च-पाठः ।