________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
३११ (मूलम्) बन्धनत्वान्निश्चयानाम् , तद्विभिन्नखभावतायां च कथं वस्तुन एकखभावतैवेति चिन्त्यम् ।।
खोपादानभेदादनुभवभेदः, न वस्तुभेदादिति चेत्, न, सर्वथा ५ एकखभावत्वे वस्तुनोऽनेकानुभवसहकारित्वानुपपत्तेः, अन्यतरविज्ञानजन्मसहकार्येकखभावत्वेनास्य तदपरविज्ञानजन्मसहकार्येकस्वभावत्वविरोधात् । अनेकविज्ञानजन्मसहकार्यकस्वभावमेतदिति चेत्, न, इत्थम्भूतस्यैकत्वायोगात्, सर्वथैकस्मादनेकजन्मव्याहतेः एकान्तैकस्यानेकत्रानुपयोगात्, तदन्यतरवत् तदितरस्यापि निमि-१०
(खो० व्या०) निबन्धनत्वात्-एकस्वभावपुरुषानुभवनिबन्धनत्वात् निश्चयानां तद्विभिन्नखभावतायां च-प्रक्रान्तपुरुषविभिन्नखभाक्तायां च कथं वस्तुन एकखभावतैवेति चिन्त्यम् । नैवेत्यर्थः ॥ ___ पराभिप्रायमाह-खोपादानभेदात् कारणात् अनुभवभेद इह प्रक्रमे पुत्रा-१५ द्यनुभवभेदो जनकादिनिश्चयानुभवनिबन्धनः, न वस्तुभेदादिति चेत्, वस्तुनः पुरुषस्यानेकानुभवसहकार्यकखभावत्वादिति । एतदाशङ्कयाह-नेत्यादि । न-नैतदेवं सर्वथैकखभावत्वे वस्तुनः-पुरुषादेः । किमित्याह-अनेकानुभवसहकारित्वानुपपत्तेः । अनुपपत्तिश्च-अन्यतरविज्ञानजन्मसहकार्येकखभावत्वेन हेतुना अस्य-वस्तुनः तदपरविज्ञानजन्मसहकार्येकवभावत्ववि- २० रोधात् । अनेकेत्यादि । अनेकानि च तानि पुत्राद्यपेक्षया विज्ञानानि च तेषां जन्म तस्मिन् सहकार्यकस्वभावो यस्य तत् तथा, एतत्-अधिकृतपुरुषवस्तु । इति चेत्, एतदाशङ्कयाह-न, इत्थम्भूतस्य, अनेकजन्मसहकारिण इत्यर्थः, एकत्वायोगात् । कथमयोग इत्याह-सर्वथैकस्मात् सहकारितयाऽपि अनेकजन्मव्याहतेः। व्याहतिश्च एकान्तैकस्य वस्तुनः स्वभावस्य वा । २५ अनेकत्रानुपयोगात् । अनुपयोगश्च तदन्यतरवत्-तत्सहकारिखभावपुत्रादिविज्ञानवदित्यर्थः । तदितरस्यापि-अध्याप्यादिविज्ञानस्यापि निमित्ताभेदेन
(विवरणम्) (२३) अनेकजन्मसहकारिण इति । अनेकेषां जन्मनि सहकारीति विग्रहः ।
१'सहकारिखभाव.' इति ग-पाठः ।