________________
३१०
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) कत्वाविशेषात्, तदन्यूनाधिकबोधभावेऽपि च तीक्ष्णैका नापरा तथेत्यनिवन्धनो भेदः। तन्यूनाधिकत्वे च न सर्वैः सर्वात्मना तद्ग्रह ५ इति यत्किञ्चिदेतत् ॥ .. 'तत्तद्वासनाऽभ्यासादपि तनिश्चयभेदः' इत्यप्ययुक्तम् , तदनुभवानामविशिष्टत्वात् , सर्वथा निरंशवस्त्वालम्बनत्वात् । एवं चानेकगुणसम्भवेपि कचित् पुरुषे यथाऽभ्यासं गुणनिश्चय इति याचितक
मण्डनमेतत्, पुरुषस्यैकखभावताभ्युपगमदौर्गत्येनानेकगुणसम्भव३० विभूतिवैकल्यात् । तदेकस्वभावतायां च न भिन्नखभावास्तदनुभवाः, इति कथं दातृत्व-वैद्यत्वादिनिश्चयभेदः ? तदनुभवनि
(स्वो० व्या०) वस्तुपरिच्छेदकत्वाविशेषात् । वस्तु चेह बाह्याभ्यन्तररूपं परिगृह्यते । तदन्यूनाधिकबोधभावेऽपि च-वस्त्वन्यूनाधिकबोधभावेऽपि च सर्वबुद्धीनाम् , तीक्ष्णै१५ का नापरा, तथा तीक्ष्णा, इति अनिवन्धनो भेदो बुद्धीनाम् । तन्न्यूनाधिकत्वे च-वस्तुन्यूनाधिकबोधभावे चाभ्युपगम्यमाने सति न सर्वैः-पृथग्जनैः प्रमातृभिः सर्वात्मना-कृत्स्वधर्मादितया तदहा-वस्तुग्रहः, किन्तु योगिभिः, इति-एवं यत्किञ्चिदेतत्-अनन्तरोदितमिति ॥ । तत्तद्वासनाऽभ्यासात् तेषां-पुत्रा-ऽध्याप्या-ऽऽतुरा-ऽर्थिनां जनका-ऽध्यापक२० वैद्य-दातृवासनाभ्यासात् तन्निश्चयभेदः-जनकादिनिश्चयभेद इत्यप्ययुक्तम् । कुत इत्याह-तदनुभवानां-प्रस्तुतपुत्राद्यनुभवानाम् अविशिष्टत्वात्-तुल्यत्वादेतच्चैवम् । सर्वथा निरंशवस्त्वालम्बनत्वात्-पुरुषस्यैकखभावतया निरंश
खेन । एवं चेत्यादि । एवं च अनेकगुणसम्भवेऽपि क्वचित् पुरुषे जनकत्वाद्यपेक्षया यथाऽभ्यासं यस्य यस्मिन्नभ्यासो यथाऽभ्यासं गुणनिश्चय:-जनक२५ त्वादिनिश्चय इति याचितकमण्डनमेतत् । कुत इत्याह-पुरुषस्यैकस्वभावताऽभ्युपगमदौर्गत्येन-दारिद्येण अनेकगुणसम्भवविभूतिवैकल्यादिति प्रकटम् । तदेकस्वभावतायां च-पुरुषस्यैकस्वभावतायां च सत्यां न भिन्नखभावास्तदनुभवा:-पश्चानुपूर्व्यार्थ्या-ऽऽतुरा-ऽध्याप्य-सुतानुभवा इति-एवं कथं दातृत्व-वैद्यत्वादिनिश्चयभेदः? । कथं च न स्यादित्याह-तदनुभव
१ 'तन्यूनाधिक ' इति ग-पाठः । २ 'गमे दौर्गत्ये.' इति क-पाठः ।