________________
अधिकारः] खोपजन्याख्यामुनिचन्द्रीयविवरणयुतम् ३०९
(मूलम्) स्वात्, अन्यथा पारम्पर्येणापि ततस्तदसिद्धेः, इत्थम्भूतयोरपि तयोः साधाभ्युपगमेऽपन्यायः । इति सर्वात्मना तद्ग्रहे तथैव निश्चयापत्तिः, तमन्तरेणापि तत्तथाताऽभ्युपगमेऽतिप्रसङ्गात् ॥ ५
स्यादेतत् सर्वात्मना तद्ग्रहेऽपि न तथैव निश्चयो भवति, कारणान्तरांपेक्षित्वात्, बुद्धिपाटवादेनिश्चयभेददर्शनात्, तीक्ष्णबुद्धीनां योगिनांरूपदर्शनमात्रेण तदन्यासम्भविक्षणिकत्वादिनिश्चयसिद्धः, न, वाङ्मात्रत्वात्, तीक्ष्णबुद्धीनामित्यत्र बुद्धेस्तैक्षण्यायोगात्, सर्वथैकखभाववस्तुवादिनस्तत्प्रभवत्वेन सर्वबुद्धीनामेव तत्परिच्छेद-..
(खो० व्या०) इत्यर्थः । इतरस्यास्तु-तत्फलसाधन्याः तथासाधकत्वात्-पारम्पर्येण साधकत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे पारम्पर्येणापि ततः-शक्तेः तदसिद्धेः-पारम्पर्येणापि विवक्षितफलासिद्धेः, इत्थम्भूतयोरपि तयोः-शक्त्योः साधाभ्युपगमेऽपन्यायः-अतिप्रसङ्गः। इति-एवं सर्वा-१५ त्मना तहे-अभ्युदयादिसाधनत्वेन दान-हिंसादिविरतिचेतनाग्रहे किमित्याहतथैव निश्चयापत्तिः-अभ्युदयादिसाधनत्वेनैव निश्चयापत्तिः तमन्तरेणापितथा निश्चयं विनाऽपि तत्तथाताऽभ्युपगमे-दान-हिंसादिविरतिचेतनाया अभ्युदयादिसाधनत्वाभ्युपगमेऽतिप्रसङ्गात् । नीलनिश्चयाजनकस्य पीतानुभवस्य नीलानुभवत्वप्राप्तेः अतिप्रसङ्ग इति भावना ॥
२० । स्यादेतदित्यादि । स्यादेतत्-अथैवं मन्यसे सर्वात्मना तगृहेऽपि-अभ्युदयादिसाधनत्वेन दान-हिंसादिविरतिचेतनाग्रहेऽपि सति किमित्याह-न तथैव-अभ्युदयादिसाधनत्वेनैव निश्चयो भवति । कुत इत्याह-कारणान्तरापेक्षित्वात् निश्चयस्य । एतदेवाह-बुद्धिपाटवादेनिश्चयभेददर्शनात् । एतद्भावनायाहतीक्ष्णवुद्धीनां योगिनां, सूक्ष्मबुद्धीनामित्यर्थः, रूपदर्शनमात्रेण तद- २५ न्यासम्भविक्षणिकत्वादिनिश्चयसिद्धेः-पृथग्जनासम्भविक्षणिकत्वादिनिश्चयसिद्धेः । 'आदि'शब्दात् परम्पराकारणत्वादिनिश्चयग्रहः । एतदाशङ्कयाह-न, वाङ्मात्रत्वात् । एतदेवाह-तीक्ष्णबुद्धीनामित्यत्र-अधिकारे बुद्धेस्तैक्षण्यायोगात्। अयोगश्च सर्वथैकखभाववस्तुवादिनो वादिनः तत्प्रभवत्वेन-एकखभाववस्तुप्रभवत्वेन हेतुना सर्वबुद्धीनामेव तत्परिच्छेदकत्वाविशेषात्-३० १'रापेक्षितत्वातू' इति ग-पाठः।