________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीयः (मूलम्) पुत्रस्यापि क्वचिध्यापकत्वसिद्धेरिति । - इतश्चैतदेवं दानहिंसादिविरतिचेतनायाः स्वसंवेद्यत्वेऽप्यभ्युदया५दिसाधनशत्त्यवगमानुपपत्तेः । न च तच्छक्तेरपि अविकल्पकेनावगमः, तथानिश्चयाभावात् । अवगमेऽपि फलस्यानन्तर्याभावात् अतत्फलसाधाद 'विपर्ययस्तस्याविनिश्चय इति चेत्, न, अविचारितरमणीयत्वात्, अतत्फलसाधन्या तत्त्वतः साधोसिद्धेः, तस्याः पारम्पर्येणापि अतत्साधकत्वात्, इतरस्यास्तु तथासाधक
(स्वो० व्या०) तत्त्वात्-जनकत्वात् । किमित्याह-पित्रादेरपि, 'आदि'शब्दात् पितामहग्रहः, पुत्रत्वादिप्रसङ्गः 'आदि'शब्दात् पौत्रत्वग्रहः । कुतः प्रसङ्ग इत्याह-पुत्रस्यापि 'अपिशब्दात् पौत्रस्यापि कचिदध्यापकत्वसिद्धेरिति “अध्यापयत पुत्रकाः!"
इत्यादि श्रुतिप्रामाण्यादिति ॥ १५ अभ्युच्चयमाह-इतश्चैतदेवं 'न ह्यर्थसन्निधिरित्येवायोगिनां सर्वाकारमेव तदव
गमः' इत्येतदित्थम् । उपपत्तिमाह-दान-हिंसादिविरतिचेतनाया इति । दानं च हिंसादिविरतिश्च दानहिंसादिविरती, तत्प्रधाना चेतना दानहिंसादिविरतिचेतना, तस्यास्तथाविधधर्मरूपाया इत्यर्थः । खसंवेद्यत्वेऽपि सति अभ्युदयादिसाधनं चासौ शक्तिश्चेति विग्रहः, स्वर्गादिरभ्युदयः, 'आदि'शब्दान्निःश्रेयसग्रहः, २० तस्याः, अवगमानुपपत्तिः-परिच्छेदानुपपत्तिः,अभ्युदयादिसाधनशत्त्यवगमा
नुपपत्तिस्ततः । न चेत्यादि । न च तच्छतेरपि-अभ्युदयादिसाधनशक्तेरपि अविकल्पकेनावगमः। कुंत इत्याह-तथा-अभ्युदयादिसाधनशक्तित्वेन निश्चयाभावात् । पराभिप्रायमाह-अवगमेऽपि तच्छक्तेरविकल्पकेन फलस्य
अभ्युदयादेरानन्तर्याभावात्-अनन्तरभावाभावात् , अतत्फलया शक्त्या साधर्म्य२५ मतत्फलसाधर्म्य तस्मात् , "विपर्ययस्तस्य-प्रमातुरविनिश्चय इति चेत् तथाऽभ्युदयादिसाधनशक्तित्वेन । एतदाशयाह-न, अविचारितरमणीयत्वात् । कथमेतदेवमित्याह-अतत्फलसाधन्या शक्त्या तत्त्वतः साधोसिद्धेः । असिद्धिश्च तस्याः-अतत्फलसाधन्याः शक्तेः पारम्पर्येणापि; किमित्याह-अतत्साधकत्वात्, न तत्साधकत्वमतत्साधकत्वं तस्मात् , विवक्षितफलासाधकत्वात् - १ 'विपर्यस्तस्याः' इति घ-पाठः। २ 'स्तस्या निश्चय' इति ग-पाठः। ३ 'तस्यावगमा०' इति क-ध-पाठः। ४ 'कुतोऽत इत्याह' इति क-पाठः । ङ-पाठस्तु 'कुतो नेत्याह' इति । ५ विपर्यस्तस्य' इति घ-पाठः । -पाठस्तु 'विपर्यस्तप्रमातुः' इति ।