________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् ३०७
(मूलम्) कामिन्यवगमस्य, क्षुद्रजन्तुपरिभोगक्षुदपनोदयोग्यतालक्षण एव तु भक्ष्यावगमस्येति। न च य एव भाविजीववियोगयोग्यतालक्षणः स्त्रीशरीरधर्मः स एव तथाविधेच्छाकामादिमजीवसंयोगयोग्यतादि-५ लक्षणा, फलभेदात्, तथाविधवियोगरमणयोगादीनां तैथोपलब्धेः, लोकानुभवसिद्धत्वात्, अन्यथा भेदव्यवस्थाऽयोगादिति । एवं जनकत्वा-ऽध्यापकत्व-वैद्यत्व-दातृत्वादीनामपि कथविद् भेदः अवसेयः, फलभेदान्यथानुपपत्तेः, तस्य चाध्यक्षसिद्धत्वात् , जनकत्वस्यैवाध्यापकत्वे तस्यापि तत्त्वात् पित्रादेरपि पुत्रत्वादिप्रसङ्गा, ३०
(स्त्रो० व्या०) मदन-कामग्रहः, तेऽस्य विद्यन्त इति तथाविधेच्छाकामादिमान्, एवम्भूतश्वासौ जीवश्चेति, तेन संयोगयोग्यता संयोगः--सम्भोगस्तस्य योग्यता, सैव लक्षणं यस्य स तथोक्तः । 'तु'शब्दः 'पुनः'शब्दार्थः । एवंलक्षणः पुनः स्त्रीशरीरधर्मः कामिन्यवगमस्य निमित्तमिति । तथा क्षुद्रजन्तोः -श्व-शृगालादेः १५ परिभोगेन-भक्षणेन क्षुदपनोद:-बुभुक्षापनयनं तस्य योग्यता, सैव लक्षणं यस्य स तथा । एवम्भूतः पुनः स्त्रीशरीरधर्मः, भक्ष्यावगमस्येति भक्ष्यावगमनिमित्तम् । न चेत्यादि । न च य एव भाविजीववियोगयोग्यतालक्षणः स्त्रीशरीरधर्मः स एव तथाविधेच्छाकामादिमजीवसंयोगयोग्यतादिलक्षणः स्त्रीशरीरधर्म इति वर्तते। 'आदि'शब्दात् क्षुद्रजन्तुपरिभोगक्षुद-२० पनोदयोग्यतालक्षणधर्मग्रहः । कुतो न चेत्याह-फल भेदात् । फलभेदश्च तथाविधवियोगश्च रमणयोगादयश्चेति समासः तेषां तथोपलब्धेः-भेदेनोपलब्धः। तत्र तथाविधवियोगः-भाविजीववियोगः, रमणयोगः-'संयोगः, 'आदि'शब्दात् क्षुद्रजन्तुपरिभोगक्षुदपनोदपरिग्रहः । एते च भेदेनोपलभ्यन्ते। कथमित्याह-लोकानुभवसिद्धत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा भेदव्यवस्थाऽ- २५ योगादिति । एवं जनकत्वा-ऽध्यापकत्व-वैद्यत्व-दातृत्वादीनामपि धर्माणां कथञ्चिद् भेदोऽवसेयः । कथमित्याह-फलभेदान्यथानुपपत्तेः। तस्य च-फलभेदस्य न्या -ऽध्याप्यादेः अध्यक्षसिद्धत्वात् । विपक्षे बाधामाहजनकत्वस्यैव अध्यापकत्वेऽभ्युपगम्यमाने , तस्यापि-अध्यापकत्वस्यापि
१ 'वियोगे रमणयोगा' इति क-पाठः । २ 'रमणीयोगा.' इति ग-पाठः । ३ तथाविधोपलन्धेः' इति क-पाठः। ४ 'परिभोगः' इति क-पाठः।