________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीयः (मूलम्) यमदोषः, सर्वथैकखभावत्वे तस्यानेकसहकारित्वानुपपत्तेः तदन्यतमसहकार्येकखभावत्वेनान्यत्र तावविरोधादित्युक्तप्रायमेव । ५ततः कथञ्चिदू भिन्नधर्मविषया एव कुणपाद्यवगमा इति । तथाहि
भाविजीववियोगयोग्यतालक्षण एव स्त्रीशरीरधर्मः कुणपावगमस्य निमित्तम्, तथाविधेच्छाकामादिमजीवसंयोगयोग्यतालक्षणस्तु
(खो० व्या०) सिताउनुभवस्य अयं-तद्विकल्पानां भिन्नेन्द्रियानुभवनिबन्धनत्वासिङ्ख्या सिते० तरादिभेदाभावप्रसङ्गलक्षणो दोषोऽदोषः। कुत इत्याह-सर्वथैकखभावत्वे सति तस्य-तदनुभवस्य, किमित्याह-अनेकसहकारित्वानुपपत्तेः अनेकेषां-भिन्नविकल्पोपादानवासनादीनां सहकारित्वानुपपत्तेः । अनुपपत्तिश्च तदन्यतमसहकार्यकस्वभावत्वेन-सितादिविकल्पोपादानान्यतमवासनासहकार्येकखभावत्वेन हेतुना अन्यत्र-वासनान्तरे तद्भावविरोधात्-सहकारिभावविरोधात् , सिता५ धनुभवस्य ह्यनेकसहकारित्वे सति आन्तरसितादिभावेनाधिकृतदोषो न दोष इति भवति, न चैतदेवम् , इत्युक्तप्रायमेव । तत इत्यादि । ततः-तस्मात् कथचिद् भिन्नधर्मविषया एव कुणपादिविकल्पा इति स्थितमेतत् । एतदेव विशेषेणाह तथाहीत्यादिना । तथाहीति पूर्ववत् । भावी चासौ जीववियोगश्चेति विग्रहः, तस्य योग्यता भाविजीववियोगयोग्यता सैव लक्षणं यस्य स २० तथा, स एवम्भूतः स्त्रीशरीरधर्मः कुणपावगमस्य निमित्तम् । तथा तथाविधाः-अतत्त्वप्रवर्तकाः, तथाविधाश्च ते इच्छाकामादयश्चेति समासः 'आदि'शब्दात्
(विवरणम्) (१४-१५) सिताद्यनुभवस्य ह्यनेकसहकारित्वे सति आन्तरसितादिभावेनाधिकृतदोषो न दोष इति भवतीति । अत्रैवमक्षरयोजना अधिकृतदोषो न दोष २५ इति न भवति । कस्मिन् सतीत्याह-अनेकसहकारित्वे । कस्येत्याह-सिताउनुभवस्यनिर्विकल्पसितादिबोधलक्षणस्य । केनह्यनेकसहकारित्वमित्याह-आन्तरसितादिभावे. नेति । अयमत्र परमार्थः-आन्तरसितादिवासनाविशेषाणामनेकेषां सहकारित्वे सति अधिकृतानुभवस्याधिकृतदोष एकस्मादनेकसहकारित्वकार्यजननलक्षणोऽदोषो भवति । न चैतद् युज्यते, आन्तराणां सितादीनामनेकेषामभावात् , ज्ञानमात्रस्यैकरूपस्याभ्यु३० पगमात्, अनुभवस्य चैकरूपस्यानेकवासनासहकारित्वस्थाभावात् , अन्यथैकत्वा
योगादिति ॥
१ 'गमनिमित्तं' इति ग-पाठः। २ 'गमनिमित्तं' इति क-पाठः ।