________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
३०५ (मूलम्) कुणप-कामिन्यादिविकल्पानां भिन्नजातीयत्वाभ्युपगमात् तदनभ्युपगमेऽतिप्रसङ्गः, रूप-रसादिविकल्पानामप्यभिन्नजातीयत्वापत्ते, तथा च तदनुभवानां सहशतेति रूपरसादिभेदाभावः।भिन्नेन्द्रिया-५ नुभवनिबन्धनत्वात् तद्विकल्पानामयमदोष इति चेत्, एवमपि सितेतरादिभेदाभावप्रसङ्गा, तद्विकल्पानां भिन्नेन्द्रियानुभवनिबन्धनत्वासिद्धेः, सर्वेषामेव तेषां चाक्षुषत्वादिति ॥ न च भिन्न विकल्पोपादानवासनासहकारिभावतस्तदनुभवस्या
(खो० व्या०) कथमेतदेवमित्याह-कुणप-कामिन्यादिविकल्पानां भिन्नजातीयत्वाभ्युपगमात् । तदनभ्युपगमे-कुणपादिविकल्पानां भिन्नजातीयत्वानभ्युपगमेऽतिप्रसङ्गः । कथमित्याह-रूपरसादिविकल्पानामप्यभिन्नजातीयत्वापत्तेः। ततः किमित्याह-तथा चेत्यादि । तथा च तदनुभवानां-रूपरसाद्यनुभवानां सदृशतेति कृत्वा । किमित्याह-रूपरसादिभेदाभावः, रूपमात्र रसादिमानं १५ वा जगत् स्यादित्यर्थः । भिन्नेन्द्रियानुभवनिबन्धनत्वात्-चक्षूरसनादीन्द्रियानुभवनिबन्धनत्वात् तद्विकल्पानां-रूपरसादिविकल्पानाम् अयं-रूपरसादिभेदाभावलक्षणो दोषोऽदोष इति चेत्, भिन्नेन्द्रियानुभवजत्वेन भिन्नजातीया एव रूपरसादिविकल्पाः, तन्निबन्धनाश्चानुभवाः, तद्धेतवो रूपादयश्चेति न रूपरसादिभेदाभाव इत्यर्थः । एतदाशङ्कयाह-एवमपीत्यादि । एवमपि-भिन्नेन्द्रियानुभवनि-२० बन्धनत्वेन तद्विकल्पानामुक्तदोषादोषत्वेऽपि सितेतरादिभेदाभावप्रसङ्ग:शुक्लकृष्णादिभेदाभावप्रसङ्गः। कुत इत्याह-तद्विकल्पानां-सिततरादिविकल्पानां भिन्नेन्द्रियानुभवनिबन्धनत्वासिद्धेः । असिद्धिश्च सर्वेषामेव तेषांतद्विकल्पानां चाक्षुषत्वादिति ॥
इहैव प्रस्ताव इति लेशतो योगाचार'मतमधिकृत्याह-न चेत्यादि । न च २५ भिन्न विकल्पोपादानवासनासहकारिभावतः कारणात् तदनुभवस्य
(विवरणम्) (२५-२६) न च भिन्न विकल्पोपादानवासनासहकारिभावतः कारणात् तदनुभवस्यति । अयमत्रामिप्राय:-योऽयं बाह्यग्राह्याकारविकलो निर्विकल्पो बोधः सितादिरूपः, स भिन्नविकल्पोपादानभूतानां नानाप्रकारवासनानां सहकारित्वं सम.३० वलम्न्य प्रभूतविकल्पहेतुर्भवतीति ॥
१ 'कुणपानामित्यादिविकल्पानां' इति ऊ-पाठः। २ 'मुक्कदोषत्वेऽपि' इति क-ह-पाठः ।
अनेकान्त०३९