________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीयः (मूलम्) एकानेके च विरोधासिद्धेः, इतरेतरानुवेधात् , जात्यन्तरात्मकत्वोप
पत्तेः, तथासंवेदनादित्युक्तप्रायम् ॥ ५ न च सर्वथा सदृशानुभवनिमित्ताः कुणपादिविकल्पा इति
अतत्कारणातत्कार्यव्यावृत्तानां सदृशत्वाभ्युपगमात् , तदनुभवानां च अतत्कार्यव्यावृत्त्यसिद्धेः, भिन्नजातीयविकल्पनिबन्धनत्वात्
(खो० व्या०) | च जात्यन्तरात्मके वस्तुनि विरोधासिद्धेः अनेकत्वस्य । असिद्धिश्च इतरेतरानु१० वेधात्, एकत्वानेकत्वयोरिति । अधिकृतानुवेधश्च जात्यन्तरात्मकत्वोपपत्तेः। एतच्च तथासंवेदनात्-जात्यन्तरात्मकतया एकत्वानेकत्वसंवेदनादित्युक्तमायंप्रायेणोक्तम् ॥
न चेत्यादि । न च सर्वथा सदृशानुभवनिमित्ताः स्खलक्षणानुभवमधिकृत्य कुणपादिविकल्पा इति । कुत इत्याह-अतत्कारणातत्कार्येभ्यो १५ व्यावृत्ता इति विग्रहस्तेषां सदृशत्वाभ्युपगमात् अनुभवानां घटानुभवानामिव तदनुभवानां च-कुगपादिविकल्पानुभवानां च अतत्कार्यव्यावृस्यसिद्धेः । असिद्धिश्च भिन्नजातीयविकल्पनिबन्धनत्वात् तदनुभवानां
(विवरणम् ) (१३) सदृशानुभवनिमित्ता इति । एकाकारा एकस्खलक्षणानुभवाः परिबाट२० कामुक-शुनां प्रमदातनवोऽभूवन् परं विकल्पा नाना प्रकारा जायन्त इति परेषामभिप्रायः ॥
(१४-१५) अतत्कारणातत्कार्येभ्यो व्यावृत्ता इति । द्विविधं हि बौद्धमते सदृशत्वनिबन्धनम्-'अतत्कारणव्यावृत्तिरतत्कार्यव्यावृत्तिश्च । यथा सर्व एव घटानुभवा अतत्कारणच्यावृत्ताः स घटः कारणं येषां ते तत्कारणघटानुभावाः, २५ न तत्कारणा अतत्कारणा:-पटाद्यनुभवास्तेभ्यो व्यावृत्तत्वाद् घटानुभवानां ते तथा त एवातेत्कार्यव्यावृत्ताः । तद्घटविकल्पलक्षणं कार्य येषां घटानुभवानां ते तत्कार्याः, न तत्कार्याः अतत्कार्याः-पटाद्यनुभवास्तेभ्यो व्यावृत्तत्वाद् घटानुभावानाम् । एतेषु तु कामुकाद्यनुभवेषु अतत्कारणव्यावृत्तिरस्ति सर्वेषामेवैकालम्बनत्वात् , न त्वतत्कार्यव्यावृत्तिभिन्नविकल्पलक्षणकार्यजनकत्वात् तेषामिति ।।
१ 'अधिकृतोपपत्तिश्च' इति क-पाठः । २ 'लक्षणासु परि०' इति क-पाठः । ३ 'प्रमदातः नावभूवन्' इति च-पाठः । ४ 'अतत्कारणप्रवृत्ति०' इति च-पाठः। ५ 'तत्कार्यवृत्ताः' इति च-पाठः।