________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् ३०३
(मूलम्) क्रमज्ञानदोषश्च प्रत्युक्तः, तथाविधावरणदोषतस्तदुपपत्तेः । न ह्यर्थसन्निधिरित्यवायोगिनां सर्वाकारमेव तदवगमः, तस्थानेकधर्मत्वात्, अवगमस्य च कारणान्तरापेक्षत्वात् । अर्थो हि यथाधर्माभ्यास- ५ मवगमं जनयति, यथाऽङ्गनार्थः सन्निधानाविशेषेऽपि परिव्राट्प्रभृतीनां कुणपाद्यवगमं प्रत्यासत्तितो वा, यथा जनकाध्यापकः सुतस्य जनकावगम, प्रकरणापेक्षो वा यथा वैद्यादिः, तत्कथायां प्रस्तुतायां तद्दर्शिनां तत्रानेकधर्मसम्भवेऽपि वैद्याद्यवगममिति । न चैकस्थानेकत्वविरोधेन तत्रानेकधर्मत्वासम्भवः, एकत्वानभ्युपगमात्, १०
(स्वो० व्या ) सम्पूर्णे तदयोगात्, क्रमज्ञानदोषश्च अक्रमे तदयोगादेव प्रत्युक्तः । कथमित्याह-तथाविधेत्यादि । तथाविधावरणदोषतः असम्पूर्णक्रमज्ञानहेतुचित्रक्षयोपशमनिबन्धनावरणदोषेण तद्भावोपपत्तेः-असम्पूर्णक्रमज्ञानभावोपपत्तेः। एतत्समर्थनायाह न हीत्यादिना । न हि अर्थसन्निधिरिति-एवं कृत्वा अयोगिनां-प्रमा- १५ तृणां सर्वाकारमेव-धर्मकालयेन तदवगमः-अर्थावगमः । कुत इत्याह-तस्यअर्थस्य अनेकधर्मत्वात् । अवगमस्य च प्रक्रमात् तत्सम्बन्धिनः कारणा. न्तरापेक्षत्वात् तत्तद्धर्माभ्यासादि कारणान्तरमिति । अत एवाह-अर्थो यस्माद् यथाधर्माभ्यासमवगमं जनयति, यस्य यथा धर्माभ्यासो यथाधर्माभ्यासम् । निदर्शनमाह-यथाऽङ्गनार्थ:-रूयर्थः सन्निधानाविशेषेऽपि सति परि-२० ब्राप्रभृतीनां, परिवार-कामुक-शुनामित्यर्थः, कुणपाद्यवगमं कुणप-कामिनीभक्ष्यावगमं प्रत्यासत्तितो वा अर्थो ह्यवगमं जनयति । निदर्शनमाह-यथा जनकाध्यापकः सुतस्य जनकावगमं नाध्याप्यान्तरस्येवोपाध्यायावगमम् , यतस्तमायान्तं दृष्ट्वा एक एवमाह-'तात आगच्छति', अपरः पुनः 'उपाध्याय आगच्छति' इति । प्रकरणापेक्षो वा यथा वैद्यादिः, 'आदि'शब्दाद् दातृत्वादिधर्म-२५ ग्रहः, तत्कथायां प्रस्तुतायां, वैद्यादिकथायामित्यर्थः, तद्दर्शिनां-वैद्यादिदर्शिनां प्रमातॄणां तत्र-वैद्यादौ अनेकधर्मसम्भवेऽपि दातृत्वादिधर्मापेक्षया वैद्याद्यवगममिति । तद् यथा-'वैद्य आगच्छति', 'दाताऽऽगच्छति' इति । न चैकस्य वस्तुनोऽनेकत्वविरोधेन तत्र-वस्तुनि अनेकधर्मत्वासम्भवः । कुत इत्याहएकत्वानभ्युपगमात् तस्य एकानेकं तदभ्युपगम्यत इत्याह-एकानेके ३०
१ तत्तथाविधा.' इति ग-पाठः। २ 'य एव भाविजीववियोगयोग्यतालक्षणः स्त्रीशरीरधर्मः स एव तथाविधेच्छाकामादिमजीवसंयोगयोग्यतादिलक्षणः' इत्यधिकः क-पाठः ।