________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
भ्युपगमादेव न नः क्षतिमावहति, केवलग्रहणपुरस्सरसंहारवादासिद्धेः, नरसिंह- मेचकवद् वस्तुनो जात्यन्तरात्मकत्वाभ्युप५ गमात् एकस्वभावत्वे तु कार्यद्वयायोगेन धीध्वन्यभाव एव, हेत्वभेदे फलभेदासिद्धेः ॥
३०२
[ तृतीयः
एतेन 'सर्वात्मकत्वे च भावानाम्' इत्याद्यपि प्रत्युक्तम्, तुल्ययोगक्षेमत्वात्, निरूपितवस्तुन एव तस्य ज्ञापकत्वेनाभिधानात् । एवं चाक्रमेणाप्यनेकधर्मके वस्तुनि पुरः स्थितेऽप्य सम्पूर्णज्ञान दोषः,
१०
( खो० व्या० )
भावं सन्मात्रमवैति' इत्युक्तमित्यादि । ततश्चास्ति कथञ्चित् प्रवृत्तिनिमित्तभेदो वाचकस्येति भावनीयम् । तथासंहारवादोपपत्तिः तथा प्रधानगुणभावेन संहारवादोपपत्तिः 'सत्रुष्ट्रः सद् दधि' इति । शेषमित्यादि । शेषं तु पूर्वपक्षोक्तम्'तत्सिद्धौ वा तत एव च तत्स्वभावभेदात् तदेकरूपतैव' इत्यादि, अनभ्युपग१५ मादेव कारणात् न नः क्षतिमावहति - नास्माकं पीडां प्रापयति । एतदेवाह - केवलग्रहणपुरस्सरसंहारवादासिद्धेः । असिद्धिश्च नरसिंह- मेचकवत् इति निदर्शनम्, वस्तुनः दध्यादेः जात्यन्तरत्वाभ्युपगमात् । परस्य त्वयं दोष एवेति निदर्शनायाह - एकस्वभावत्वे तु वस्तुनोऽभ्युपगम्यमाने कार्यद्वयायोगेन हेतुना, किमित्याह-धी- ध्वन्यभाव एव - द्वयोर्वी ध्वन्योरभाव एव । कुत २० इत्याह- हेत्वभेदे फलभेदासिद्धेः कारणात् । ततश्चाज्ञानानभिधानेन संहारवादादिचिन्ताऽनुपपत्तिरिति भावनीयमेतत् ॥
एतेन - अनन्तरोदितेन वस्तुना 'सर्वात्मकत्वे च भावानाम्' इत्याद्यपि पूर्वपक्षोक्तं प्रत्युक्तम् । कुत इत्याह- तुल्ययोगक्षेमत्वात् अनन्तरोदितेन । अत एव आह-निरूपितवस्तुन एव तस्य - 'सर्वात्मकत्वे च भावानाम्' इत्यादेः २५ ज्ञापकत्वेनाभिधानात् पूर्वपक्षे । एवं चेत्यादि । एवं च कृत्वा अक्रमेणापि - युगपदपि अनेकधर्मके वस्तुनि पुरः स्थितेऽपि सति असम्पूर्णज्ञानदोषः, ( विवरणम् )
(२०-२१) ततश्चाज्ञानानभिधानेन संहारवादादिचिन्ताऽनुपपत्तिरिति । परेण हि मे " ज्ञातमेव सत्रुष्ट्र इत्यादिधीध्वनिनिमित्तमतः कथमजानानः सन् ३० संहारवादादिचिन्तां कुर्यात् ? ||
१३०० तमे पृष्ठे । २२५ तमे पृष्ठे । ३ द्रष्टव्यं २५तमं पृष्ठम् । ४ 'ज्ञानमेव' इति च-पाठः । ५ 'पत्तिरेवेति' इति च-पाठः ।