________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
समानरूपमुष्टुत्वादि रक्तादाविव विशिष्टं वस्त्रादीति । तथाक्षयोपशमवत्त्वं च प्रमातुः प्रभाखरस्य प्रकृत्या बोधहासवृद्ध्युपलब्धेः आगन्तुककर्ममलभावेन द्रव्याद्यवातितोऽविरुद्धमेव । न चैतद बुद्धि- ५ द्वयमपि न तन्निमित्तम्, तद्भावभावित्वाविशेषात् । एवमप्येकस्याः अन्यथाकल्पनेऽतिप्रसङ्गतेति तथावाचकस्यापि भावात् कथञ्चित् प्रवृत्तिनिमित्तभेदात् तथासंहारवादोपपत्तिः । शेषं चान( स्वो० व्या० )
भावो यस्य तत् तथा । एतदेव विशेष्यते - उपसर्जनीकृतं सत्तासमान १० रूपं यस्मिंस्तत् तथा उष्ट्रत्वाद्यवैति । रक्तादाविव विशिष्टं वस्त्रादीति निदर्शनम्, 'पटोsयम्' इति । तथाक्षयोपशमवत्त्वं च चित्रक्षयोपशमवत्त्वं च प्रमातुः, 'अविरुद्धमेव' इति योगः । प्रभास्वरस्य प्रकृत्या – स्वभावेन बोधहासवृद्ध्युपलब्धेः कारणात् किमित्याह - आगन्तुककर्ममलभावेन हेतुना द्रव्यायवासितः - द्रव्य-क्षेत्र काल-भव - भावावाप्तेः, अविरुद्धमेव 'तथा १५ क्षयोपशमवत्त्वम्' इति क्रिया निदर्शितैव । न चैतदित्यादि । न चैतद् बुद्धिद्वयमपि सदुष्ट्रादिप्रतिभासम्, न तन्निमित्तं - नोष्ट्रनिमित्तम् । किं तर्हि ? उष्ट्रनिमित्तमेव । कुत इत्याह--तद्भावभावित्वाविशेषात् । तथाहि यथा सद्बुद्धिः उष्ट्रभावभाविनी, एवमुष्ट्रबुद्धिरपि । एवमप्येकस्याः, प्रक्रमात् समुद्धेः, अन्यथाकल्पने-अतन्निमित्तत्वकल्पनेऽतिप्रसङ्गः, उष्ट्रबुद्धेरप्यतन्निमित्तत्वप्रसङ्गात् । नावि - २० कल्पबुद्धेरभेदे विकल्पभेदो न्याय्य इति । ततश्च स्थितमेतत् एवं 'सर्ववस्तुशबलभावेऽपि तथाक्षयोपशमवत्प्रमातुर्गुणप्रधानभावेन क्वचिदन्यासंसृष्टाकाराया इव बुद्धेः "सिद्धेः" इति । तथावाचकस्यापि भावात् तथा तेन प्रकारेण क्वचिदन्यासंसृष्टाकारस्येव वाचकस्यापि शब्दस्यापि भावात् । भावश्च कथञ्चित् प्रवृत्तिनिमित्तभेदात् गुणप्रधानभावेन, 'विप्रकृष्टो हि तत्र प्रमाता तथाप्रतिपत्तिवीर्य- २५ तोऽप्रधानगुणभूतमपि भावेन गुणभूतोष्ट्रत्वादिविशेषं पटुप्रतीत्यपेक्षापादितप्रधान( विवरणम् )
अधिकारः ]
३०१.
(२०-२१) नाविकल्पबुद्धेरभेदे विकल्पभेदो न्याय्य इति । न-नैवाविकल्प बुद्धेः अभेदे सति विकल्पभेदो न्याय्यः- घटमानकः सनुष्ट्र इति भेदेनोत्पन्नाद् विकल्पयुगलादनुमिमीमहे यदुत निर्विकल्पबुद्धावपि तद्वस्तु द्विस्वभावं प्रतिभासितमिति ॥ ३०
१ 'प्रसङ्ग इति' इति ग-पाठः । २ 'शेषं त्वनभ्युप०' इति ग-पाठः । ३ 'यदा' इति क- पाठः । ४ 'कस्य ; प्रक्रमात् ' इति घ- पाठः । ५ 'सिद्धिरिति' इति क - पाठः । ६ प्रेक्ष्यतां ३०० तसं पृष्ठम् }