________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीयः (मूलम्) यच्चोक्तम्-'सर्ववस्तुशबलवादिनः कचिदन्यासंसृष्टाकारबुद्ध्यसिद्धेः तथावाचकाभावात् संहारवादानुपपत्तिः, तत्सिद्धौ वा तत ५एव तत्स्वभावभेदात् तदेकरूपतैव' इत्येतदप्ययुक्तम्, सर्ववस्तु
शबलभावेऽपि तथाक्षयोपशेमवत्प्रमातुर्गुणप्रधानभावेन कचिदन्यासंसृष्टाकाराया बुद्धेः सिद्धेः, सन्निकृष्ट-विप्रकृष्टयोः प्रमानोरुष्ट्र एव, सदुष्टादिबुद्धिभेददर्शनाद् विप्रकृष्टो हि तत्र प्रमाता तथा
प्रतिपत्तिवीर्यतोऽप्रधानगुणभूतमपि भावेन गुणभूतोष्ट्रत्वादिवि५० शेषं पटुप्रतीत्यपेक्षापादितप्रधानभावं सन्मात्रमवैति, यथा विशिष्टवस्त्रादौ रक्तादि, सन्निकृष्टस्त्वन्यथाप्रतिपत्तिबलेन उक्तरूपमपि तत्त्वतस्तथाग्रहणगुणोपनतमुख्यभावमुपसर्जनीकृतसत्ता
(स्वो० व्या०) यच्चोक्तं मूलपूर्वपक्षे-'सर्ववस्तुशबलवादिनः' इत्यादि यावत् 'तत्सिद्धौ ७५ वा तत एव तत्वभावभेदात्तदेकरूपतैव' इति एतत् प्राग व्याख्यातमेवेति न व्याख्यायते । अत्र तु दूषणमभिधातुमाह-एतदप्ययुक्तम् । कथमित्याह-सर्ववस्तुशवलभावेऽपि सति तथाक्षयोपशमवत्ममातुः, चित्रक्षयोपशमवत इत्यर्थः, गुणप्रधानभावेन-वक्ष्यमाणोदाहरणगतेन कचित्-वस्तुनि अन्यासं
सृष्टाकाराया इव बुद्धेः सिद्धेः-उपलब्धेः । इहैव भावार्थमाह-सनिकृष्टविप्रकृ२० ष्टयोः प्रमात्रोरुष्ट्र एव वस्तुनि, सदुष्टादिबुद्धिभेददर्शनात् । कथमेतदेवमित्याह-विप्रकृष्टो हि तत्र-उष्ट्रे प्रमाता तथाप्रतिपत्तिवीर्यतः-सामान्यप्रतिपत्तिसामयेन अप्रधानगुणभूतमपि भावेन-परमार्थेन 'सन्मात्रमवैति' इति योगः। किंविशिष्टमित्याह-गुणभूतोष्टत्वादिविशेषं गुणभूतः-अप्रधानभूत उष्ट्रत्वादिविशेषो यस्मिस्तत् तथा । एतदेव 'विशेष्यते पटुप्रतीत्यपेक्षया२५निश्चयप्रतीत्यपेक्षया आपादितः प्रधानभवो यस्य तत् तथा । एवम्भूतं
सन्मात्रमवैति । निदर्शनमाह-यथा विशिष्टवस्त्रादौ पटादिरूपे रक्तादि रक्तं किमपीति । सन्निकृष्टः पुनः प्रमाता अन्यथाप्रतिपत्तिबलेन-तथाप्रतिपत्तिवीर्यापेक्षया, विशेषप्रतिपत्तिसामर्थ्येनेत्यर्थः, उक्तरूपमपि तत्त्वतः
अप्रधानगुणभूतमपि परमार्थेन 'उष्ट्रत्वादि' इति योगः, 'अवैति' इति क्रियानुवृत्तिः । ३० एतदेव विशेष्यते-तथाग्रहणगुणेन-विशेषग्रहणोपकारेण उपनतो मुख्य
१२५तमे पृष्ठे । २ 'शमवतः प्रमातु.' इति क-पाठः ३ ३ २५ तमे पृष्ठे। ४ 'शमवतः प्रमातु.' इति क-पाठः । ५ अप्रधानमत एव गुणभूतमित्यर्थः । ६ विशिष्यते यदुत प्रतीत्य०' इति क-पाठः।