________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् २९९
(मूलम्) विशिष्टतत्वभावत्वकल्पना च न युज्यते। विशिष्टोपाध्यभावेन भावे चास्यान्वयो ध्रुवः॥ १४ ॥ अभिन्नदेशरूपादिभावेऽप्येषोऽनिवारितः। न चैकान्तिक एवायं धूमादावन्यथेक्षणात् ॥ १५ ॥ एवं सन्यायतः सिद्ध उभयेऽप्युभयोद्भवे । चोदनेऽन्यतरस्येह प्रवृत्तौ नियमः कुतः ? ॥ १६ ॥ उभयोस्तुल्यरूपत्वाद् निरंशत्वाच सर्वथा । विशेषासम्भवाद् ध्वान्तमवधूय विचिन्त्यताम् ॥ १७॥ १० एवं सर्वत्र संयोज्यः प्रवृत्त्यनियमो बुधैः। प्रक्रान्तार्थानुसारेण लेशतस्तु निदर्शितः ॥ १८ ॥”६ इत्यादि ।
(स्वो० व्या०) दिति न्याय्यमिति । १३ । तथा चाह-विशिष्टेत्यादि । विशिष्टतत्वभाव-१५ त्वकल्पना च-दध्युष्ट्रजननस्वभावत्वकल्पना च न युज्यते। केन हेतुनेसाह-विशिष्टोपाध्यभावेन, तदा सर्वथा दध्यायभावेनेत्यर्थः । भावे चास्यविशिष्टस्योपाधेः किमित्याह-अन्वयो ध्रुवः भाविकार्यार्थाशून्यतया, तस्यैव तथोपाधित्वयोगादिति । १४ । अभिन्नेत्यादि । अभिन्नदेशरूपादिभावेऽपि दध्यादेः एषः-अन्वयोऽनिवारितः परस्य । न चैकान्तिक एवायम्-अभिन्न-२० देशरूपादिभावः । कुत इत्याह-धूमादावन्यथेक्षणात्-भिन्नदेशरूपादिभावक्षणात्। १५ । एवमित्यादि । एवं सन्यायतः सिद्धे सति उभयेऽपि-दध्युष्ट्रोभये उभयोद्भवे-दध्युष्ट्रोभयोद्भवे, उभयमुभयजननखभावमिति तुल्यात् स्वभावद्वयात् उपजायमानमुभयमप्येतत् तुल्यमेव भवतीति । एवं चोदनेऽन्यतरस्येह दधि खाँदेत्येवं प्रवृत्ती नियमः कुतः? उभयोस्तदुभयस्वभावजन्यत्वेन तुल्यत्वा- २५ दिति । १६ । अत एवाह-उभयोरित्यादि । उभयोः-दध्युष्ट्रयोस्तुल्यरूपत्वात् तदुभयजनकत्वेन निरंशत्वाच सर्वथा एकस्वभावत्वेन, एवं विशेषासम्भवात् कार्यदध्युष्ट्रयोरिति सामर्थ्यम्, ध्वान्तमवधूय विचिन्त्यता प्रवृत्तिनियमः कुत इत्येतत् । १७ । एवमित्यादि । एवम्-उक्तनीत्या सर्वत्रविष-मोदकादौ संयोज्यः प्रवृत्त्यनियमो बुधैः-पण्डितैः प्रक्रान्तार्थानुसारेण ३० दध्युष्ट्रयोः परेणोपन्यस्तत्वात् लेशतस्तु निदर्शितः प्रवृत्त्यनियम इत्यादि ।। १-२ अनुष्टुप् । ३ 'द्वितये' इति ग-पाठः । ४-६ अनुष्टुप् । ७ 'खाद प्रवृत्तौ' इति घ-पाठः ।