________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीयः
ततः सोऽस्ति न चान्यत्र न चाप्यनुभयं परम् । एवं तत्त्वव्यवस्थायामवयं नास्ति किञ्चन ॥१०॥ सर्वथा क्षणिकत्वे च प्रतीत्योत्पादवादिनः। सर्वस्य सर्वकार्यत्वप्राप्त्याऽभेदो भवेदपि ॥ ११ ॥ क्षीरोष्ट्रानन्तरं भूतेन्यायाद् दध्युष्ट्रयोर्यतः। द्वयकार्यत्वयोगेन नियमात् तुल्यरूपता ॥ १२॥ न चेत् तत्तत्स्वभावत्वात् न तत् ताभ्यां पृथडूमतम् । तचाविशिष्टं सर्वेषामसतामिति भाव्यताम् ॥ १३ ॥
(खो० व्या०) विशेषपरिणामः तत्र-दनि येन कारणेन भेदेन वर्तते, तथा चोदितः पुरुषः । न चैवमपि परेष्टसिद्धिरित्याह-स दध्येवेत्सदो न एतन्नैकान्तेन ! कुत इत्याह
सद्रव्यत्वानुवेधतः कारणात् केवलस्य दधिपर्यायस्याभावादित्यर्थः । ९ । तत १५ इत्यादि । ततः सोऽस्त्यतिशयो दनि, न चान्यत्र-उष्ट्रेऽसौ, तन्नियतत्वात् । न
चाप्यनुभयं परं तत्त्वम् , उक्तवत् समानासमानोभयपरिणामरूपत्वेन । एवं तत्त्वव्यवस्थायां सत्यां अवयं-पापं नास्ति किञ्चन । १० । परपक्षे त्वयं दोष एवेत्याह-सर्वथेत्यादि । सर्वथा क्षणिकत्वे च, निरन्वयक्षणिकत्व इत्यर्थः,
प्रतीत्योत्पादवादिनः परस्य, सर्वस्य-दध्यादेर्वस्तुन इति प्रक्रमः, सर्वकार्य२० त्वप्राप्त्या-उष्ट्रादिकार्यत्वप्राप्त्या हेतुभूतया अभेदो दूषणमेतद् भवेदपि ।११। एतदेवाह-क्षीरोष्ट्रानन्तरं भूतेः-उत्पत्तेन्योयाजगति सदा तद्भावेन दध्युष्टयोः, यतो द्वयोरपीह प्रक्रमे, द्वयकार्यत्वयोगेन हेतुना नियमात्, तुल्यरूपता, परनीत्या द्वयोरपि तवयादुत्पत्तेरित्यर्थः । १२ । न चेदित्यादि । न चेत् तुल्यरूपता तत्तत्स्वभावत्वात्-तयोर्दध्युष्ट्रजननस्वभावत्वात् । एतदाशङ्कयाह-न २५ तत्-तत्स्वभावत्वं ताभ्यां दध्युष्ट्राभ्यां पृथङ्मतं-अर्थान्तरभूतमिष्टम् । किं तर्हि ? दध्युष्ट्रावेव द्वावपि तत्स्वभावत्वम् । तच-तत्स्वभावत्वं च तेत्तत्त्वरूपमेव अविशिष्ट-तुल्यं सर्वेषामसतां-खर-विषाणादीनामिति भाव्यतामेतत् । ततश्च तयोर्दध्युष्ट्रजननस्वभावत्वादित्येतदेवासत्, किन्तु तयोरसजननस्वभावत्वा
(विवरणम्) ३० (१५) तन्नियतत्वादिति । तस्मिन्-दनि नियतस्तस्य भावः-तत्त्वं तस्मात् ।।
१-४ अनुष्टुप् । ५ 'प्रवर्तते' इति घ-डा-पाठः । ६ एतदेकान्तेन' इति घ-पाठः । ७ 'क्षणिक इत्यर्थः' इति घ-पाठः। ८ 'द्वये कार्यः' इति उ-पाठः । ९ 'तत्स्वरूपमेव' इति घपाठः । १० 'नामपि भाव्यता०' इति क-पाठः। ११ 'दधनि यतस्तन्नियतस्तस्य' इति च-पाठः ।