________________
स्वोपज्ञव्याख्यामुनि चन्द्रीय विवरणयुत्तम्
(मूलम् ) अन्योन्यव्याप्तितश्चायं सस्वोष्टत्वादिधर्मयोः । सिद्ध एकान्तभेदादित्यागाज्जात्यन्तरात्मकः ॥ ४ ॥ नसत्त्वं किञ्चिदौष्ट्यादिधर्मान्तरविवर्जितम् । तद् वा सत्त्वविनिर्मुक्तं केवलं गम्यते क्वचित् ॥ ५ ॥' ततोऽसत् तत् तथा न्यायादेकं चोभयसिद्धितः । अन्यत्रातो विरोधस्तदभावापत्तिलक्षणः ॥ ६ ॥ एवं चोभयरूपत्वे तद्विशेषनिराकृतिः । असिद्धा नान्यतोऽभिन्नं यदन्यत्रापि वर्तते ॥ ७ ॥ प्रवृत्तिनियमोऽप्येवं दधि खादेति युज्यते । चोदितस्येह दयेव यद्विशेषेण चोदना ॥ ८ ॥ अतोऽस्त्यतिशयस्तत्र येन भेदेन वर्तते । स दयेवेत्यदो नेति सव्यत्वानुवेधतः ॥ ९ ॥ ( खो० व्या० ) तद्भावः - औष्ट्र्यादिसत्तालक्षणः इष्टश्चेत् एतदाशङ्कयाह-भेदाभेदविकल्पतः भेदाभेदात्मको विकल्पः, विकल्पः - भेदस्ततः सत्त्वात् कथञ्चिद् भेदेनेति योऽर्थः । ३ । अन्योन्यव्याप्तितश्च कारणादयं भेदाभेदविकल्पः सत्त्वोष्ट्रत्वादिधर्मयोः सिद्धः - प्रतिष्ठित एकान्तभेदादित्यागात् सर्वथा भेदाभेदत्यागात् जात्यन्तरात्मक इति । ४ । एतद्भावनायैवाह-न सत्त्वमित्यादि । न २० सत्त्वं किञ्चिदौष्ट्र्र्यादिधर्मान्तरविवर्जितं तत्-औष्ट्यादि वा सवविनिमुक्तं केवलं गम्यते कचित् । ५ । यदि नामैवं ततः किमित्याह - ततोऽसत् तत् सत्त्वादि तथा - इतरेतरभेदेन न्यायात्-न्यायेन केवलानवगमनात्, एकं च असत् तत् उभयसिद्धितः - सत्त्वौष्ट्याद्युभयोपलब्धेः अन्यत्र - एकान्तभेदादौ अतो विरोधस्तदभावापत्तिलक्षणः तयोः सत्त्वोष्टत्वाद्ययोरभावापत्तिः सैव २५ लक्षणं यस्य स तथा । ६। एवं चेत्यादि । एवं च-उक्तनीत्या उभयरूपत्वे सत्युष्ट्रादेः किमित्याह तद्विशेषनिराकृतिः - उष्ट्रत्वादिविशेषनिराकृतिः असिद्धा । कथमित्याह - नान्यतः - दनः अभिन्नं सत्त्वं यत् - यस्मादन्यत्रापि - उष्ट्रादौ वर्तते । किं तर्हि ? आत्मीयमेव । ७ । ततश्च प्रवृत्तिनियमोऽप्येवं दधि खाद इति एवं युज्यते चोदितस्येह दभ्येव । कुत इत्याशङ्कयाह-यद्विशेषेण चोदना २० दधि खादेत्येवम्, न पुनरुष्ट्रं धावेति । ८ । अत इत्यादि । अतोऽस्त्यतिशयः
अधिकारः ]
२९७
१–६ अनुष्टुप् । ७ 'सत्त्वौष्ट्रयादि०' इति घ-पाठः ॥ ८ 'दिभेदान्तरविवर्जितं ' इति क-पाठः । ९ 'एकं वाऽसत्' इति ऊ-पाठः । १० 'सत्त्वौष्ट्र०' इति ध-पाठः ।
अनेकान्त० ३८
१०
१५