________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[ तृतीयः (मूलम्) मिव अविभावितानुष्ठानम्, न विदुषां मनोहरमित्यपकर्णयितव्यम् , वस्तुतः प्रदत्तोत्तरत्वात्, सामान्यविशेषरूपस्य वस्तुनः सम्यव्य५वस्थापितत्वात् , अन्यत्र च प्रपञ्चेन निराकृतत्वात् । तथा चोक्तम्
"समानेतरबुद्धिश्च प्रतिवस्तूपजायते।। सत्रुष्टः सद्दधीत्यादिरूपा तनिश्चयात्मिका ॥१॥ नौष्ट्रयादि सत्त्वभिन्नं चेत् ननु तत् केन चेष्यते ? । अभेदे न विगानं चेद् धियां तत् किंकृतं ननु ? ॥२॥ भेदे तु तदसत्त्वं चेत् कः किमाहात्र वस्तुनि । कथं तद्भाव इष्टश्चेद् भेदाभेदविकल्पतः ॥३॥
(खो० व्या०) शेषनिराकृतेः" इत्यादि, तदपि कूटनटनृत्तमिवेति निदर्शनम् , अविभावितानुष्ठानं दर्शनभावार्थपरिज्ञानशून्यत्वेन न विदुषां मनोहरमिति कृत्वाऽप५ कर्णयितव्यम्-न श्रोतव्यम् । कुत इत्याह-वस्तुतः प्रदत्तोत्तरत्वात् , तथा सामान्यविशेषरूपस्य वस्तुनः सम्यग् व्यवस्थापितत्वात्, अन्यत्रस्याद्वादकुचोद्यपरिहारादौ प्रपश्चेन निराकृतत्वात् अपरस्योक्तस्य । तथा चोक्तमिति ज्ञापकमाह-समानेतरबुद्धिश्च-समान विशेषबुद्धिश्च प्रतिवस्तुवस्तु वस्तु प्रति प्रतिवस्तु उपजायते। किंविशिष्टेत्याह-सन्तुष्टः सद्दधीत्यादि२० रूपा तन्निश्चयात्मिका-उष्ट्रादिनिश्चयात्मिका । १। नौष्ट्यादि सत्त्वभिन्नं
चेत् औष्ट्रयमुष्ट्रत्वम् , 'आदि'शब्दाद् द्रव्यत्वादिग्रहः, सत्त्वं भिन्नं चेत् , ततश्च सन्मात्रमेवैतँदित्यभिप्रायः । एतदाशङ्कयाह-ननु तत् केन चेष्यते नौष्ट्रयादि सत्त्वभिन्नमिति ? । अभेदे न विगानं चेदौष्ट्रयादि-सत्त्वयोः सन्मात्रमेवैतदेवमिति भावः । एतदाशङ्कयाह-धियां-बुद्धीनां तत्-विगानं किंकृतम् ? ननु अस्ति २५ चैतदासामुष्ट्र-द्रव्य-सबुद्धीनां मिथो वैलक्षण्येन । २ । भेद इत्यादि । भेदे पुनरौष्ट्रयादि-सत्त्वयोः तदसत्त्वं चेदौष्ट्रयाद्यसत्त्वं सत्त्वादन्यत्वेन । एतदाशङ्कयाहकः किमाह अत्र वस्तुनि ? । भेदे सति तदसत्त्वमेव भवतीत्यर्थः । कथं
(विवरणम्) (२०) तन्निश्चयात्मिकेति । सामान्यविशेषनिश्चयखभावा तन्नित्यादिका सामान्य३० निश्चयरूपा; उष्ट्र इत्यादिका तु विशेषनिश्चयस्वरूपा इत्यर्थः ।।
१ स्थाद्वादकुचोद्यपरिहारादौ । २-४ अनुष्टुप् । ५ 'समानबुद्धि विशेषश्च' इवि ङ-पाठः। ६ 'औष्ट्रामुष्ट्र' इति क-पाठः। ७ दिति भावः । एतदा०' इति -पाठः ।