________________
अधिकारः ]
स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम् )
धानजननस्वभावस्त्वितरः । इति यथोक्तसंवेदनाभिधानसंवेद्याभिधेया एव च विषादय इति प्रतीतमेतत्, अन्यथा यथोक्तसंवेदनाद्यभावप्रसङ्गात् । अतो यद्यपि द्वयमप्युभयरूपं तथापि ५ विषार्थी विष एव प्रवर्तते, तद्विशेषपरिणामस्यैव तत्समानपरिणामाविना भूतत्वात्, न तु मोदके, तत्समानपरिणामाविनाभावाभावात् तद्विशेषपरिणामस्येति, अतः प्रयास मात्र फला प्रवृत्तिनियमोच्छेदचोदनेति ॥
२९५
एतेन 'विषे भक्षिते मोदकोऽपि भक्षितः स्यात्' इत्याद्यपि प्रति 10 क्षितमवगन्तव्यम्, तुल्ययोगक्षेमत्वादिति । यचापरेणाप्युक्तम्“सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः" इत्यादि तदपि कूटनटनृत्त( स्वो० व्या० ) धिषणा- ध्वनी तथा विशिष्टबुद्ध्यभिधानजनन स्वभावस्त्वितरोऽसमानपरिणामः, यतः खलु घटादिष्वेव घटः शरावमित्यादिविशेषेण भवतो बुद्ध्यभिधाने । १४ इति - एवमधिकृतोदाहरणापेक्षया भावार्थमभिधाय पूर्वपक्षोपन्यस्त भेदापेक्षया प्रक्रान्तनिगमनायाह-यथोक्तसंवेदनेत्यादि । यथोक्ते च ते संवेदना -ऽभिधाने च तयोः संवेधाभिधेया इति विग्रहः, एवम्भूता एव च विषादयः । तथाहि - सत् सदिति विषादयः संवेद्यन्ते अभिधीयन्ते च तथा विषमोदक इति - एवं चेति प्रतीतमेतत्, अन्यथा - यथोक्तसंवेदनाभिधानसंवेद्याभिधेयत्वाभावे यथोक्त- २० संवेदनाद्यभावप्रसङ्गात् । 'आदि' शब्दाद यथोक्ताभिधानग्रहः । अतो यद्यपि द्वयमपि विषं मोदकश्चेति उभयरूपं - सामान्यविशेषरूपं तथापि विद्यार्थी प्रमाता विष एवं प्रवर्तते । कुत इत्याह- तद्विशेषपरिणामस्य एव - विषविशेषपरिणामस्यैव तत्समानपरिणामाविना भूतत्वात् विषसमानपरिणामाविनाभूतत्वात् न तु मोदकेन पुनर्मोदके । कुत इत्याह- तत् - २५ समान परिणामाविना भावाभावात् - मोदकसमान परिणामांविनाभावाभावात् तद्विशेष परिणामस्येति - विषविशेष परिणामस्येति । अतः उक्तन्यायात् प्रयासमात्रफला प्रवृत्तिनियमोच्छेदचोदना पूर्वपक्षसम्बन्धिनी इति ॥
,
एतेनेत्यादि । एतेन - अनन्तरोदितेन ग्रन्थेन 'विषे भक्षिते मोदकोsपि भक्षितः स्यात्' इत्याद्यपि पूर्वपक्षोक्तं प्रतिक्षिप्तमवगन्तव्यम्, तुल्य - ३० योगक्षेमत्वादिति । यच्चापरेणाप्युक्तम्- “सर्वस्योभयरूपत्वे तद्वि
१ २३तमे पृष्ठे । २ 'विना भावात्' इति ङ-पाठः । ३ ' अनुतन्यायात्' इति क-पाठः । द्रष्टयं २१ तमं पृष्टम् । ५ २३ मे पृष्ठे ।