________________
२९४
अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीयः (मूलम् ) नभिज्ञतासूचकमेव केवलम् , न पुनरिष्टार्थप्रसाधकमिति । न हि 'मधुरक-लड्डुकादिविशेषानन्तरं सर्वथैकस्वभावमेकमनवयवं सामान्यम्' इत्यभिदधति जैनाः, अतः किमुच्यते-'न विषं विषमेव, मोदकाधभिन्नसामान्याव्यतिरेकात्' इत्यादि । किं तर्हि ? समानपरिणामः । स च भेदाविनाभूतत्वात् न य एव विषादभिन्नः स एव मोदकादिभ्योऽपि, सर्वथा तदेकत्वे समानत्वायोगात् ॥ - स्यादेतत् समानपरिणामस्यापि प्रतिविशेषमन्यत्वादसमानपरि१०णामवत् तावानुपपत्तिरिति । एतदप्ययुक्तम्, सत्यप्यन्यत्वे
समानासमानपरिणामयोर्भिन्नस्वभावत्वात् । तथाहि-समानधिषणा-ध्वनिनिबन्धनस्वभावः समानपरिणामस्तथा विशिष्टबुद्ध्यभि
(स्वो० व्या०) किमित्याह-जिनमतानभिज्ञतासूचकमेव केवलम् , न पुनरिष्टार्थप्रसा१५ धकं वस्त्वनुपपत्तिरिष्टोऽर्थ इति न तत्प्रसाधकम् । कथमित्याह-न हीत्यादि । न यस्मान्मधुरक-लड्डकादिविशेषानर्थान्तरमभिन्नं सर्वथैकखभावमेकमनवय सामान्यमित्यभिदधति जैना:-भणन्त्याहताः । अतः किमुच्यतेऽनभ्युपगतोपालम्भप्रायं यदुत 'न विषं विषमेव, मोदकाद्यभिन्नसामान्याव्यतिरेकात्' इत्यादि । किं तर्हि ? । समानपरिणामः सामान्यमि२० त्यभिदधति जैना इति । स च-समानपरिणामः किमित्याह-भेदाविनाभूतत्वात् कारणान्न य एव विषादभिन्नः स एव मोदकादिभ्योऽपि । कथं नेत्याह-सर्वथा तदेकत्वे-समानपरिणामैकत्वे समानत्वायोगात् । न ह्येकं समानमिति भावना ॥
स्यादेतदित्यादि । स्यादेतत्-अथैवं मन्यसे समानपरिणामस्यापि२५ मृदाद्यात्मकस्य प्रतिविशेष-विशेष विशेष प्रति घट-शरावादिलक्षणम् , अन्यत्वात् कारणात् , असमान परिणामवदिति निदर्शनं तद्भावानुपपत्ति:समानपरिणामभावानुपपत्तिरिति । एतदाशङ्कयाह-एतदप्ययुक्तम् । कथमित्याहसत्यप्यन्यत्वे समानपरिणामस्य प्रतिविशेष समानासमानपरिणामयोः उक्तलक्षणयोभिन्नखभावत्वात् । भिन्नस्वभावत्वमेवाह तथाहीत्यादिना । तथा३० हीत्युपप्रदर्शने । समानधिषणा-ध्वनिनिबन्धनस्वभावः-तुल्यबुद्धि-शब्दहेतुखभावः समानपरिणामो यतः खलु घट-शरावादिषु मृन्मृदित्यविशेषेण भवतो