________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् २९३
(मूलम् ) "वस्तुन एव समानः परिणामो यः स एव सामान्यम् ।
असमानस्तु विशेषो वस्त्वेकमनेकरूपं तु ॥" ततश्च तद् यत एव सामान्यरूपम् , अत एव विशेषरूपम् , ५ समानपरिणामस्यासमानपरिणामाविनाभूतत्वात्, यत एव च विशेषरूपमत एव सामान्यरूपम् , असमानपरिणामस्थापि समानपरिणामाविनाभावादिति । न चानयोर्विरोधः, अन्योन्यव्यातिव्यतिरेकेणोभयोरसत्वापत्तेः, उभयोरपि स्वसंवेदनसिद्धत्वात्, संवेदनस्योभयरूपत्वात् , उभयरूपतायाश्च व्यवस्थापितत्वात् ॥ १० __ यच्चोक्तम्-'सामान्यविशेषोभयरूपत्वे सति वस्तुनः सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गः' इत्यादि तदपि जिनमता
(खो० व्या०) चोक्तमित्यधिकृतार्थप्रसाधकं ज्ञापकमाह-वस्तुन एव-घटादेः समानः परिणामो यः-मृदादिः स एव सामान्यम् , असमानस्तु विशेष:-अव- १५ स्वादिः । वस्त्वेकमनेकरूपं तु-सामान्यविशेषोभयरूपमपि तदनेकत्वतोऽनेकरूपमित्यर्थः॥ । ततश्चेत्यादिना मूलपूर्वपक्षग्रन्थं परिहरति-ततश्च तत्-वस्तु घटादि यत एव सामान्यरूपं मृदायात्मकतया अत एव कारणाद् विशेषरूपमूर्खादिरूपापेक्षया । कुत इत्याह-समानपरिणामस्य प्रस्तुतस्य, असमानपरिणामा-२० विनाभूतत्वात्, विशेषपरिणामाविनाभूतत्वादित्यर्थः । यत एव च कारणाद् विशेषरूपमूर्खाद्यपेक्षया अत एव सामान्यरूपं मृदाद्यात्मकतया । भावनामाह--असमानपरिणामस्यापि-ऊर्ध्वादिरूपस्य समानपरिणामाविनाभावातू-मृदादिपरिणामाविनाभावादिति । न चानयोः-समानासमानपरिणामयोर्विरोधः । कुत इत्याह-अन्योन्यव्यासिव्यतिरेकेण विना २५ उभयोः-समानासमानपरिणामयोरसत्त्वापत्तेः, आपत्तिः प्राक् प्रदर्शितैव, तथा उभयोरपि खसंवेदनसिद्धत्वात् तथाऽनुभवभावेन । अत एवाह-संवेदनस्योभयरूपत्वात् सामान्यविशेषोभयपिक्षया, उभयरूपतायाश्च संवेदनस्य व्यवस्थापितत्वाद॑धः, 'न चानयोविरोधः' इति क्रियायोगः ॥
यञ्चोक्तं पूर्वपक्षग्रन्थे-सामान्यविशेषोभयरूपत्वे सति वस्तुन:-३० घटादेः सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्ग इत्यादि, तदपि
१ आर्या । २ विंशतितमे पृष्ठे । ३ 'विना' इति पाठो नास्ति घ-पुस्तके। 'देव' इति हुपाठः। ५ विंशतितमे पृष्ठे।