________________
२९२
अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीयः (मूलम्) तदर्शनस्य च तदाभासविषयत्वेनाविरोधात् , अन्यथा प्रत्यक्षस्थापि
अविषयत्वापत्तिः । इति समानपरिणाम एव सामान्यम् ॥ ___ यतश्चैवमतो न य एवासावेकस्मिन् विशेषे स एव विशेषान्तरे। किं तर्हि ? समानः । इति कुतः सामान्यवृत्तिविचारोदितभेदद्वयसमुत्थापराधावकाश इति ? । न चैवं सति परस्परविलक्षणत्वाद् विशेषाणां समानबुद्धि-शब्दद्वयप्रवृत्त्यभावः, सत्यपि वैलक्षण्ये
समानपरिणामसामय॑तः प्रवृत्तेः, असमानपरिणामनिवन्धना च •विशेषबुद्धिरिह। इति यथोदितबुद्धि-शब्दद्वयप्रवृत्तिः। तथा चोक्तम्
(स्वो० व्या०) तन्यतिरेकेण-वस्तुव्यतिरेकेण कदाचिदप्यप्रवृत्तः घट-शरावादिष्विव हिमा. झारादिष्वदर्शनादिति भावना । तथातद्दर्शनस्य च-सङ्केतविप्रलम्भद्वारेण
समानबुद्धिशब्दद्वयदर्शनस्य च प्रधानेश्वरादिकार्यत्वादौ तदाभासविषयत्वेन१५ समानबुद्धिशब्दद्वयाभासविषयत्वेन अविरोधात् । इत्थं चैतदङ्गीकर्तव्यमित्याह
अन्यथा-एवमनभ्युपगमे प्रत्यक्षस्यापि निर्विकल्पकस्य किमित्याह-अविषयत्वापत्तिः अविगानेन तथाऽनुभवादेरधिकृतबुद्ध्याकारऽपि भावात् तस्य च निर्विषयत्वात् , न चैतदेवम् । इति-एवं समानपरिणाम एव सामान्यमिति
महानिगमनम् ॥ २० यतश्चेत्यादि । यतश्च एवमतो न य एवासौ-समानपरिणामः एकस्मिन् विशेषे-घटादौ स एव विशेषान्तरे-शरावादौ । किं तर्हि ? समानः । इति-एवं कुतः सामान्यवृत्तिविचारोदितं च तद् भेदद्वयं च-देशकार्व्यरूपं विकल्पद्वयमिति विग्रहः, तत्समुत्थाश्च तेऽपराधाच-सदेशत्वप्र
सङ्गादयः तेषामवकाशः कुतः ? नैव, समानपरिणामस्य तद्विलक्षणत्वादिति । २५ न चैवमित्यादि । न चैवं सति परस्परविलक्षणत्वाद् विशेषाणांघट-शरावादीनां समानवुद्धि-शब्दद्वयप्रवृत्त्यभावो हिमा-ऽङ्गारादीनामिव । कुत इत्याह-सत्यपि लक्षण्ये समानपरिणामसामर्थ्यतः प्रवृत्तेः कारणात् समानबुद्धि-शब्दद्वयसेति । व्यतिरेकमाह-असमानपरिणामनिबन्धना च विशेषबुद्धिरिह, प्रक्रमे घट-शरावादिबुद्धिवत् । इति एवं ३० यथोदितबुद्धि-शब्दद्वयप्रवृत्तिः, समानबुद्धि-शब्दद्वयप्रवृत्तिरित्यर्थः । तथा
१ 'प्रवृत्तिः तत्समान.' इति क-पाठः ।