________________
अधिकारः]
खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
२९१
(मूलम् )
त्वात् तद्वैचित्र्येण परोदितदोषासिद्धेः क्रमयोगपद्यार्थक्रियाकरणस्वभावत्वात् तस्य च पर्यनुयोगायोगात्, अन्यथा समानत्वादिति समुद्रोर्मिकल्पश्चाधिकृतो बुद्ध्याकारः। स यदैवं न युज्यते वसंवेद. ५ नसिद्धश्च प्रतिप्रमातु, अतो यथोक्तनिवन्धन एवेति युक्तमभ्युपगन्तुम् , अन्यथा तदुच्छेदापत्तेरिति तथाविधः समानपरिणाम एव, समानबुद्धि-शब्दद्वयप्रवृत्तिनिमित्तम् ॥
यद्येवं कथं कचित् तद्व्यतिरेकेणाप्यस्य प्रवृत्तिः । ननु चास्येत्ययुक्तम्, वस्तुनिबन्धनस्य तव्यतिरेकेण कदाचिदप्यप्रवृत्तेः, तथा-10
(स्वो० व्या०) त्वात्, 'इह' इति वर्तते । तथाहि-यतोऽर्थक्रियाकरणस्वभावः अतोऽर्थक्रियां करोति, किमत्रानित्यत्वादिना ? सत्यष्यस्मिन् सर्वतः सर्वार्थक्रियाऽसिद्धेरिति । तथा तद्वैचित्र्येण-स्वभाववैचित्र्येण परोदितदोषासिद्धेः-क्रम-योगपद्याभ्यामर्थक्रियाविरोष इति परोदितो दोषस्तदसिद्धेः । असिद्धिश्च क्रम-योगपद्यार्थ-१५ क्रियाकरणखभावत्वात् । ततश्च क्रमसाध्यां क्रमेण करोति योगपद्यसाध्यां योगपद्येन इति न कश्चिद् दोषः, तथास्वभावत्वात् । तस्य च स्वभावस्य पर्यनुयोगायोगात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा समानत्वात् ऊर्मिजननस्वभावत्वपरिकल्पितखभावस्यापि पर्यनुयोगप्राप्तेः, इति-एवं समुद्रोमः अप्यभावापत्तेः । समुद्रोर्मिकल्पश्चाधिकृतो बुद्ध्याकार:-समानबुद्ध्याकारः, २० स यंदैवम्-उक्तनीत्या न युज्यते स्वसंवेदनसिद्धश्च प्रतिप्रमातप्रमातारं प्रमातारं प्रति, अतः अस्मात् कारणाद् यथोक्तनिबन्धन एवतथाविधसमानपरिणामनिबन्धन एव इति युक्तमभ्युपगन्तुम् , अन्यथाएवमनभ्युपगमे तदुच्छेदापत्तेः-समानबुझ्याकारोच्छेदापत्तेः । इति-एवं तथाविध: वास्तवः समानपरिणाम एव समानबुद्धि-शब्दद्वयप्रवृत्तिनि-२५ मित्तमिति निगमनम् ॥ - ययेवमित्यादि । यद्येवं कथं कचित्-प्रधानेश्वरादिकार्यत्वादौ तव्यतिरेकेणापि-प्रधानेश्वरादिकार्यत्वव्यतिरेकेणापि अस्येति प्रक्रमात् समानबुद्धिशब्दद्वयस्य, प्रवृत्तिर्भवतीति यथोक्तं प्रागिति । एतदाशक्याह-नन्वित्यादि । ननु चास्येत्ययुक्तम् । कथमित्याह-वस्तुनिवन्धनस्य-समानबुद्धि-शब्दद्वयस्य ३०
'भावस्य परिकल्पित.' इति क-पाठः। २ 'पत्तिः' इति उ-पाठः। ३ 'यदेवमुक्का' इति घ-स-पाठः।