________________
२९०
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) भूताद्धेतोस्तस्येव यदिति चेत्, न, मोक्षहेतोः कैश्चित् तथाविधत्वा
भ्युपगमात्, अहेतोरपि तथाभावकल्पनाऽविरोधात् अस्याप्यर्थ.५क्रियोपपत्तेः तत्करणस्वभावत्वात् अनित्यत्वादेः सर्वतः सर्वार्थक्रियाभावेनेहाप्रयोजकत्वात् । तत्करणखभावत्वस्य च प्रयोजक
(स्त्रो० व्या०) यदिति चेत् ऊर्मिजननवभावो हि समुद्रक्षणः ऊर्मिजननस्वभावसमुद्रक्षणजननस्वभावात् समुद्रक्षणादुत्पन्न इति विद्यते, अस्य तथाभूतो हेतुः, नैवं नित्यभावजनन१. स्वभावजननस्वभावो हेतुरस्ति, तन्नित्यत्वविरोधादित्यभिप्रायः। एतदाशङ्कयाह-नेत्यादि । न-नैतदेवं मोक्षहेतोः-विशिष्टज्ञानादेः कैश्चित्-नैयायिकादिभिः तथाविधत्वाभ्युपगमात्-नित्यभावजननस्वभावत्वाभ्युपगमात् , तथाऽहेतोरपि-अविद्यमानहेतोरप्यनाद्यवादेः, किमित्याह-तथाभावकल्पनाऽविरोधात् तथाभावःनित्यभावस्तत्कल्पनाऽविरोधात् । तथाहि-अहेतुरेव कश्चित् सत्स्वभावः सन्नित्य १५ इति किमत्र क्षुण्णम् ? । नित्यस्य क्रम-योगपद्याभ्यामर्थक्रियाविरोध इत्याशङ्काऽपोहाय
आह-अस्यापि अधिकृतनित्यस्य अर्थक्रियोपपत्तेः । उपपत्तिश्च तत्करणस्वभावत्वात्-अर्थक्रियाकरणस्वभावत्वात् । अयं चात्र प्रधान इति विपक्षे बाधामाह-अनित्यत्वादेः। इह-अर्थक्रियायामप्रयोजकत्वात् इति योगः ।
अप्रयोजकत्वं च सर्वतः सर्वार्थक्रियाभावेन । न ह्यनित्य इत्येव सर्वो भावः २० सर्वामर्थक्रियां करोति, नित्य इत्येव वा, तथा अदर्शनात् , अतो यो यदर्थक्रिया: करणस्वभावः स तां करोतीति तत्करणस्वभावत्वमेवात्र प्रयोजकमिति । अत एवाह-तत्करणस्वभावत्वस्य च-अर्थक्रियाकरणस्वभावत्वस्य च प्रयोजक
(विवरणम्) (८) यदिति चेदिति । अत्र यच्छब्दो यस्मादर्थे । २५. (९-१०) नैवं नित्यभावजननस्वभावजननस्वभावो हेतुरस्ति । तन्नित्यत्व.. विरोधादिति । न-नैवं ऊर्मिजननस्वभावभाववत् नित्यभावजननभावजननस्वभावः नित्यपदार्थजनकपदार्थजननस्वरूपो हेतुः-जनकोऽस्ति । कुत इत्याह-तन्नित्यत्वविरोधात् । तस्य जन्यतयाऽभिमतस्य पदार्थस्य हि नित्यत्वविरोधात् । यो हि जन्यते स कथं नित्यो भवितुमर्हतीति ।।
१ 'यदिति तम्मि .' इति क-पाठः। २ 'तस्य' इति क-पाठः। ३ ‘स खभावः' इति घ-पाठः। ४ 'क्षुणम्' इति घ-पाठः । ५ 'यदधिक्रिया.' इति घ-पाठः । ६ 'नित्यभावजननखभावो' इति च-पाठः, क-पाठस्तु 'नित्यभावगानभावजननभावजननखभावः' इति । ७ तन्नि. सत्व.' इति च-पाठः।