________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
२८९ (मूलम्) चेत्, न, तादृशस्यास्याप्रयोजकत्वात्, तत्तद्भावेऽतिप्रसङ्गात्, तत्खभावानामपि केषाञ्चित् तथाभेदाद नित्यतया फलभेदापत्तेः॥ न नित्यता केषाश्चिदपि । किं नेति वाच्यम् । न तद्धेतुः तथा- ५
(स्त्रो० व्या०) सकाशादन्य इति कृत्वा तन्मात्रत्वमेव-समुद्रक्षणमात्रत्वमेव, ततश्च 'ऊर्मिजननस्वभावत्वं विशेषः' इति वचनमात्रमेव । तन्मात्रत्वेऽपि-समुद्रक्षणमात्रत्वेऽपि तङ्गेदवत्-समुद्रक्षणभेदवद् भेद एव इति चेत्, विशेष एवोर्मिजननस्वभावस्य क्षणस्येति । एतदाशक्याह-न, तादृशस्य-तुल्यस्वरूपभेदमात्रहेतोः अस्य-क्षण-१० भेदस्य अप्रयोजकत्वात् स्वभावभेदेनोर्मिजननं प्रति । एतदेवाह-तत्तद्भावे तस्यभेदमात्रस्य तद्भाव-स्वभावभेदेनोर्मिजननं प्रति प्रयोजकत्वादित्यर्थः । किमित्याहअतिप्रसङ्गात् । एनमेवाह-तत्स्वभावानामपि केषाश्चित्-पदार्थानां तथाभेदात्-तुल्यस्वरूपभेदमानहेतुतया भेदात् नित्यतया-नित्यस्वभावत्वेन फलभेदापत्तेः-समुद्रोर्मिवदनित्यभावविलक्षणफलभेदापत्तेरित्यतिसूक्ष्मधिया भावनीयम् ॥१५
अत्राह-न नित्यता केषाञ्चिदपि-भावानाम् । एतदाशङ्कयाह-किं न इति वाच्यम् । न तद्धेतुः-नित्यभावहेतुः तथाभूतात्-नित्यभावजननस्वभावजननखभावादिति योऽर्थः हेतोः-कारणात्। तस्येव, प्रक्रमादूर्मिजननस्वभावसमुद्रक्षणस्येव
(विवरणम्) (१४) तुल्यस्वरूपभेदमानहेतुतया भेदादिति । तुल्यं-परस्परसाधारणं तच २० तत्स्वरूपेण भेदमात्रं च तद्धेतु:-कारणं नित्यपदार्थजननं प्रति प्रयोजनं येषां ते तथा तेषां भावस्तत्ता तया कृत्वा भेदात्-विशेषात् , यथाहि-अविशिष्टात् समुद्रक्षणात् स्वरूपमात्रेण पाश्चात्यसमुद्रक्षणेभ्यो भिन्नात् सकाशाद् विशिष्ट ऊर्मिक्षण उत्पद्यते । एवं स्वरूपमात्रेणान्येभ्यः पदार्थेभ्यो भिन्नात् कुतोऽपि वस्तुक्षणान्नित्यस्य कार्यस्योत्पत्तिः . स्यात् , उभयत्रापि विशिष्टहेतोरभावात् , स्वरूपभेदमात्रस्य च समानत्वात् ।। २५
(१७-१८) नित्यभावजननभावजननस्वभावादिति योऽर्थ इति । नित्यभावजननः नित्यपदार्थनिष्पादको योऽसौ भावः-पदार्थस्तजननस्वभावो यस्य स तथा तस्मात् । ऊर्मिजननस्वभावस्य समुद्रक्षणस्य हेतुरस्ति । एवं न नित्यभावहेतुर्नित्यभावजननस्वभावाद्धेतोरुत्पन्नः समस्तीति भावार्थः ।।
१ 'सत्खभावा.' इति क-पाठः। २ 'तस्याभेद.' इति उ-पाठः। ३ 'सत्स्वभावा.' इति क-ऊ-पाठः। ४ 'प्रतियोजकं येषां' इति क-पाठः।
अनेकान्त०३७