________________
२८८
अनेकान्तजयपताकाख्यं प्रकरणम् ' [तृतीयः
(मूलम् ) समुद्रोविद् यतस्तदेव तदिति चेत्, न, तस्यापि वाय्वादिना विना तत एवाभावात् । अनागमो वाय्वादिकल्प इति चेत्, न, तद५ भावेऽपि कचित् तद्भावोपपत्तेः । खविक्षोभोद्भवसमुद्रोर्मितुल्यः स इति चेत् , स एव तदा कुत इति वाच्यम् ? । तस्यैव तत्वभावत्वादिति चेत्, न, तदविशेषेण सदा समुद्रोर्मिप्रसङ्गात् । तस्य तत्क्षणविशेषत्वादप्रसङ्ग इति चेत्, न, तस्य तन्मात्रत्वेन विशेषत्वासिद्धेः। ऊर्मिजननवभावत्वं विशेष इति चेत्, न स्वभावः स्वभाव०वतोऽन्य इति तन्मात्रत्वमेव । तन्मात्रत्वेऽपि तद्भेदवद् भेद एवेति
(स्वो० व्या०) समुद्रोमिवदिति निदर्शनं यत:-बोधरूपात् तदेव-बोधरूपं तंदिति चेत्वैशिष्टयम् । इति चेत्, एतदाशङ्कयाह-न, तस्यापि-समुद्रोमारवादिना विक्षोभकारणेन विना तत एव-समुद्रमात्रादभावात् , ततश्च दृष्टान्त-दार्टीन्तिकयोवैष५ म्यमित्यर्थः । अनागमः तीर्थिकसम्बन्धी वाय्वादिकल्प इति चेत्, ततो न
वैषम्यमित्यभिप्रायः। एतदाशङ्कयाह-न, तदभावेऽपि-अनागमाभावेऽपि कचित्बालविकल्पादौ तद्भावोपपत्तेः, प्रक्रमादधिकृतबुद्ध्याकारोपपत्तेः । खेत्यादि । स्वविक्षोभादुद्भवो यस्य समुद्रोमः स तथा स्वविक्षोभोद्भवश्वासौ समुद्रोर्मिश्चेति समासः तेन तुल्यः स इति चेत्-प्रस्तुतबुद्ध्याकारः, एतदाशङ्कयाह-स एव-स्ववि२० क्षोभोद्भवः समुद्रोमिस्तदा तस्मिन्नेव काले कुत इति वाच्यम् । तस्यैवेत्यादि । तस्यैव-समुद्रस्य तत्वभावत्वात्-तदोर्मिजननस्वभावत्वात् इति चेत् स एव तैदेति । एतदाशङ्कयाह-नेत्यादि । न-नैतदेवम् , तदविशेषेण-समुद्राविशेषण हेतुना सदा समुद्रोर्मिप्रसङ्गात् , तन्मात्रनिबन्धनो यु(ह्यू ?)मिर्विशिष्टं च भेदकाभावेन परस्य तन्मात्रत्वमिति भावना । तस्येत्यादि । तस्य-स्वविक्षोभोद्भवसमुद्रोमिहेतोः २५ समुद्रस्य तत्क्षणविशेषत्वात्-समुद्रक्षणविशेषत्वात् अप्रसङ्ग इति चेत् । सदोर्मिप्रसङ्गोऽनन्तरोदितः, स एव क्षणस्तत्स्वभावः, नान्ये तत्क्षणा इत्यभिप्रायः । एतदाशङ्कयाह-न, तस्य-समुद्रक्षणस्य तन्मात्रत्वेन-समुद्रक्षणमात्रत्वेन हेतुना विशेषत्वासिद्धेः । ऊर्मिजननस्वभावत्वं विशेष इति चेत्, तथाहि-न सर्वे तत्स्वभावाः सर्वेभ्य ऊर्मिभावापत्तेः, न चेयं तथाऽदर्शनादिति ३० भावेनेति । एतदाशङ्कयाह-न स्वभाव इत्यादि । न स्वभावः स्वभाववतः
१ नहि स्वभावः' इति ग-पाठः । २ 'तद् वैशिष्ट्य०' इति घ-पाठः। ३ 'तदेतदाशाह' इति क-पाठ। ४ 'ह्युमिरविशिष्टं' इति क-ङ-पाठः !