________________
स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम् )
किञ्चित् तदेवास्य विषय इति, कथमविषयो नाम ? । अवस्त्वेव तदिति चेत्, कथं ततः स आकार इति वाच्यम् । अहेतुक एवायमिति चेत्, सदा तद्भावादिप्रसङ्गः । विशिष्टं बोधरूपं वासना ५ न बोधमात्रमिति चेत्, किंकृतमस्य वैशिष्ट्यमिति वाच्यम् । अनादिहेतु परम्पराकृतमिति चेत्, न तत्रापि तन्मात्राविशेषात् । स
अधिकार: ]
( स्वो० व्या० )
एतदेव वासनेति बोधादबोधवन्नान्याकारानुत्तरज्ञानजन्मेति । अनिष्टं चैतत् । कुत इत्याह-तत्र - अनुत्तरज्ञाने तदनभ्युपगमात् - तथाविधाकारानभ्युपगमात् ॥
१०
द्वितीयं विकल्पमधिकृत्याह - अथान्यदेव किञ्चिद् वस्तु वासनेति । एतदाशाह - तदेव - अन्यत् किञ्चिद् वासनाख्यं अस्य - अधिकृतबुद्ध्याकारस्य विषय इति - एवं कथमविषयो नाम अयं बुद्ध्याकारः ? । अवस्त्वेव तदिति चेत्, अन्यत् किञ्चिद् वासनाख्यम् । एतदाशङ्कयाह- कथं ततः:-वस्तुनः स आकार:अधिकृतबुद्ध्याकार इति वाच्यम् । अहेतुक एवायं बुद्ध्याकारः । इति चेत्, १५ एतदाशङ्कयाह-सदा तद्भावादिप्रसङ्गः नित्यं सत्त्वमसत्त्वं वेति नीतेः । विशिष्टं बोधरूपं वासना, न च बोधमात्रमविशिष्टमिति चेत्, ततश्च किल यथोक्तदोषाभाव इति । एतदाशङ्कयाह- किंकृतमस्य-बोधरूपस्य वैशिष्ट्यमिति वाच्यम् । अनादिहेतु परम्पराकृतम् । इति चेत् एतदाशङ्कयाह-न तत्रापि - अनादिहेतुपरम्परायां तन्मात्रा विशेषात् - बोधरूपमात्राविशेषात् । सः - बुद्ध्याकारः २०
( विवरणम् )
२८७
( ९ ) एतदेव वासनेति बोधादबोधवन्नान्याकारानुत्तरज्ञानजन्मेति । एतदेव - निर्विशेषणं बोधमात्रमेव वासना वर्तते, न त्वन्यत् किञ्चित् इति - अस्मात् कारणात् बोधात्-बोधक्षणात् सकाशात् अबोधवत् - अबोधस्येव न-नैबान्याकारस्य--- समानाकार विलक्षणाकारस्यानुत्तरविज्ञानस्य जन्म युक्तम् । अयमभिप्रायः - बोधमात्र - २५ मेव वासना, न त्वन्यत् किश्चिद् वस्तु सत्कर्मादि बौद्धरङ्गीक्रियते । ततो बोधात् समानाकारं ज्ञानमुत्पद्यत इत्यायातम् । एवं च यथा बोधादबोधो न जायते, तथाऽन्याकारानुत्तरविज्ञानजन्मापि न स्यात् । सुगतज्ञानमपि तथाविधसमानाकारोल्लेखवशादित्यर्थः, तत्रापि बोधमात्रस्योपादानभूतस्याविशेषात् ॥
१ ' ततोऽवस्तुनः' इति ङ-पाठः ।
२ 'चेति' इति क पाठः ।