________________
२८६
अनेकान्तजयपताकाख्यं प्रकरणम् [ तृतीया
(मूलम्) तददर्शनात् । तदतुल्यसामर्थ्यनिवन्धनमेतत्, अतोऽन्यत् तत्तुल्यसामर्थ्यकारणमिति सन्यायः । तुल्यसामर्थ्यमेव च नो भावानां ५ समानपरिणाम इति परिभाव्यतामेतत् ॥ ___ अविषय एवायं बुद्ध्याकारोऽनादिवासनादोषादुपप्लव इति चेत्, केयं वासना नाम ? । किं बोधमानं उतान्यदेव किश्चित् ?। यदि बोधमात्रमनुत्तरज्ञानेऽपि तथाविधाकारापत्तिः तस्यापि बोधमात्रभावात् । अनिष्टं चैतत्, तत्र तदनभ्युपगमात् । अथान्यदेव
१.
(खो० व्या०) तुल्यसमानजातीयकार्यादर्शनादिति भावितमेतत् । यदि नामैवं ततः किमित्याह-तदतुल्यसामर्थ्यनिवन्धनं तेषाम्-इन्द्रियादीनामतुल्यसामर्थ्यनिबन्धनम् , एतत्तुल्यसमानजातीयकार्यादर्शनम् । अतोऽन्यत् , प्रक्रमात् तुल्यसमानजातीयकार्यदर्शनं गृह्यते । एतचेह मृदूपमात्रतयाऽधिकृतघट-शरावो-ष्ट्रिको दञ्चनादि१५ विषयमेवावगन्तव्यम् , तत्तुल्यसामर्थ्यकारणमिति घटादीनां तुल्यसामर्थ्य
कारणमतुल्यसामर्थ्येभ्यो हिमादिभ्य एव मृद्रूपताऽयोगादिति सन्न्यायः, अन्वयव्यतिरेकबलप्रतिष्ठितत्वात् तत्तुल्यसामर्थ्यस्य । एवमपि काञ्चेष्टसिद्धिरित्याहतुल्यसामर्थ्यमेव च न:-अस्माकं भावानां-घटादीनां समानपरिणाम इति परिभाव्यतामेतत् । एतदुक्तं भवति-येषामेव भावानां पिण्डादीनां तुल्यं २० सामर्थ्य त एव घटादीन् मृद्रपमात्रतया तुल्यान् समानजातीयान् कुर्वन्ति, नान्ये हिमादयः, घटादिष्वेव च मृन्मृदिति समानाकारा बुद्धिरुत्पद्यते, न हिमादिषु, अतस्तात्त्विकसमानपरिणामनिबन्धनेयमिति सूक्ष्मधियाऽऽलोचनीयम् ॥
आह-अविषय एव-अनालम्बन एव अयं-प्रक्रान्तो सन्मृदिति समानो बुद्ध्याकारः। कुतः किमात्मको वाऽयमित्याह-अनादिवासनादोषात् अयं उपप्लव: २५ स्वरूपेण । इति चेत्, एतदाशङ्कयाह-केयं वासना नाम?। किंबोधमात्रं-निर्वि
शेषणमेव उतान्यदेव किश्चित्-बोधाद् भिन्नं वस्तु ? । उभयथाऽपि दोषमाहयदि बोधमात्रं-निर्विशेषणमेव वासना, ततः किमित्याह-अनुत्तरज्ञानेऽपिभगवतः सम्बन्धिनि तथाविधाकारापत्तिः, प्रक्रमान्मृन्मृदिति समानबुद्ध्याकारापत्तिः । कुत इत्याह-तस्यापि-अनुत्तरज्ञानस्य बोधमात्रभावात्,