________________
२८५
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् _____२८५
(मूलम् ) इति कुतः १ । खहेतुभ्य उत्पत्तेः, न अन्येषामपि तत्मसङ्गात् तेषामपि स्वहेतुभ्य एवोत्पत्तेः । न तथाविधेभ्यस्तेषां यथाविधेभ्य एषामिति चेत्, किमिदं तथाविधत्वम् ? तुल्यकार्यकृजनकत्वम्। नेदं तत्- ५ तुल्यसामर्थ्यमन्तरेण। तदङ्गीकरणे चाङ्गीकृत एव मदीयोऽभ्युपगमः, अतुल्यसामर्थ्येभ्यस्तुल्यसमानजातीयकार्यानुत्पत्तेः, इन्द्रियादिषु
(खो० व्या०) समानजातीयकार्योत्पादिनो घट-शरावो-ष्ट्रिको-दञ्चनादय इत्यर्थः। तद्धेतवा, प्रक्रमादधिकृतबुद्ध्याकारहेतवः, नान्ये-इन्द्रियादयः। कुत इत्याह-अतत्वभावत्वात्, . सः-अधिकृतबुद्ध्याकारहेतुः स्वभावो येषां ते तत्स्वभावाः, न तत्स्वभावा अतत्स्वभावाः, तद्भावस्तस्मादिति चेत्, इन्द्रियादीनामेतदाशङ्कयाह-तेषामेव-घटादीनामसौ खभावः, प्रक्रमादधिकृतबुद्ध्याकारजननस्वभाव इति-एतत् कुतः । अत्राह-वहेतुभ्यः सकाशादुत्पत्तेः विशिष्टेभ्य इति पराकूतम् । एतदनादृत्य सामान्यमेव गृहीत्वाऽऽह-नेत्यादि । न-नैतदेवम् अन्येषामपि-इन्द्रियादीनां ५ तत्प्रसङ्गात्-अधिकृतबुद्ध्याकारजननस्वभावत्वप्रसङ्गात् । प्रसङ्गश्च तेषामपिअन्येषामिन्द्रियादीनाम् । किमित्याह-वहेतुभ्य एवोत्पत्तेः। न हि तेऽप्यन्यहेतुका अहेतुका वा इति भावनीयम् । न तथाविधेभ्यस्तेषामित्यन्येषामिन्द्रियादीनां यथाविधेभ्य एषाम्-अधिकृतबुद्ध्याकारहेतूनां घटादीनाम् । इति चेत्, एतदाशयाह-किमिदं तथाविधत्वं तद्धेतूनामिति ? । अत्राह-तुल्यकार्य-२० कृजनकत्वं तुल्यकार्यकरणशीलास्तुल्यकार्यकृतः, इह प्रक्रमे तावद् घटादयस्तेषां जनकास्तद्धेतव इति प्रक्रमः, तद्भावस्तुल्यकार्यकृजनकत्वं तथाविधत्वमिति । एतदाशक्याह-नेदं-तुल्यकार्यकृजनकत्वं तत्तुल्यसामर्थ्यमन्तरेण तेषां-तद्धेतूनां तुल्यसामर्थ्य विना । यदि नामैवं ततः किमित्याह-तदङ्गीकरणे च-तत्तुल्यसामाङ्गीकरणे च अङ्गीकृत एव मदीयोऽभ्युपगमः, तुल्यसामर्थ्यस्यैव २५ समानपरिणामत्वात् । एतदेव विपक्षबोधाभिधानेनाभिधातुमाह-कथमङ्गीकृत एव मदीयोऽभ्युपगमः, अतुल्यसामर्येभ्यः-इन्द्रियादिभ्यः तुल्यसमानजातीयकार्यानुत्पत्तेः। न रूपादिज्ञानैककार्यकारिभ्योऽपि इन्द्रियादिभ्यः स्वसन्तती तुल्यानि समानजातीयकार्याण्युत्पद्यन्ते, यदुत सर्वाणीन्द्रियाण्येव मनस्कारा वेत्यादीति भावना । आह च-इन्द्रियादिषु अतुल्यसामर्थेषु तददर्शनात्-३० १ 'जातीयानि कार्या.' इति क-पाठः।