________________
२८४
. अनेकान्वजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) . तुल्यसमानजातीयकार्योत्पादिनामतत्कारिभेद इह गृह्यत इति
चेत्, न, तस्य तेभ्यो भेदाभेदविकल्पानुपपत्तेः, भेदे तेषामिति ५सम्बन्धाभावः, तादात्म्याद्यसिद्धेः, भेदमात्रत्वात् वस्तुत्वापत्तेश्च,
अभेदे त एव ते । इति कथमसमानास्तद्धेतवो नाम ? । न हि रसादिभ्यः समानो रूपबुद्धयाकारः, तथाऽननुभवाद् व्यवस्थानुपपत्तेश्च । नान्य एव तत्तद्भेदः, अपि तु त एव तत्खभावा इति, अतस्त एव तद्धेतवः, नान्ये, अतत्वभावत्वादिति चेत्, तेषामेवासी खभाव
(खो० व्या०) .. तुल्येत्यादि । तुल्यं च तत् समानजातीयकार्य चेति विग्रहः, तदुत्पादयितुं
शीलास्तुल्यसमानजातीयकार्योत्पादिनः तेषां अतत्कारिभेद इह-अधिकारे गृह्यते। इति चेत्, एतदाशयाह-न, तस्य-अतत्कारिभेदस्य तेभ्यः-तुल्यसमानजातीयकार्योत्पादिभ्यो भेदाभेदविकल्पानुपपत्तेः । एनामेवाह भेद १५ इत्यादिना । भेदे तुल्यसमानजातीयकार्योत्पादिभ्यः अतत्कारिभेदस्याभ्युपगम्यमाने
तेषां-तुल्यसमानजातीयकार्योत्पादिनां भेद इति-एवं सम्बन्धाभावः। कुत इत्याह-तादात्म्याद्यसिद्धेः-तुल्यसमानजातीयकार्योत्पादिनामतत्कारिभेदस्य च तादात्म्याधसिद्धेः । 'आदि'शब्दात् तदुत्पत्तिपरिग्रहः । असिद्धिश्च भेदमात्रत्वात् कारणात् तादात्म्यासिद्धिः वस्तुत्वापत्तेश्च भेदस्य तदुत्पत्त्यसिद्धिः ॥ २० द्वितीयविकल्पमधिकृत्याह-अभेदे तुल्यसमानजातीयकार्योत्पादिभ्यः अतत्कारिभेदस्याभ्युपगम्यमाने । किमित्याह-त एव ते-तुल्यसमानजातीयकार्योत्पादिन एव ते केवलाः, न तदतिरिक्तं किञ्चित् । इति-एवं कथमसमानाः प्रकृत्या तद्धेतवः-समानबुद्ध्याकारहेतवो नाम? । एतदेव प्रकटयति न हीत्यादिना । न हि रसादिभ्यः-प्रकृत्या असमानेभ्यः समानो रूपबुद्ध्याकारः। कुतो न हीत्याह२५ तथाऽननुभवात्-समानरूपबुद्ध्याकारतयाऽननुभवाद् रसादीनाम् । एतत्कल्पाश्च
तुल्यसमानजातीयकार्योत्पादिन इन्द्रियादय इष्यन्त इत्यर्थः । दोषान्तरमाह-व्यवस्थानुपपत्तेश्च । अननुभवेऽपि समानबुद्ध्याकारपरिकल्पने रसादिभेदाभावप्रसङ्गादिति भावः। आह-नान्य एव तत्तद्भेद:-तुल्यसमानजातीयकार्योत्पादिभ्योऽतत्कारिभेदः, अपि तु त एव-तुल्यसमानजातीयकार्योत्पादिनः तत्वभावाः, ३० प्रक्रमादधिकृतबुद्ध्याकारजननस्वभावा इति। अतः कारणात् त एव-विशिष्टास्तुल्य
१'नेत्यादिना' इति घ-पाठः ।