________________
अधिकारः]
खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
२८३
इति निश्चयाभावात् , उक्तवदूवासनाकल्पनोपपत्तेरित्यलं प्रसङ्गेन ॥
बुद्ध्याकार एवायमिति चेत्, कोऽस्य हेतुरिति वाच्यम् । तदेककार्यकारिणामतत्कारिभेद इति चेत्, न, इन्द्रियादिभिर्व्यभि- ५ चारात् । न रूपज्ञानाद्येककार्यमिह गृह्यते, अपि तु समानजातीयक्षणोत्पादः, तेषामतत्कारिभेदोऽत्र विवक्षित इति चेत्, न, सर्वेषामेवासौ विद्यते रूपज्ञानादिभावेऽपीन्द्रियादिसमानजातीयक्षणोत्पत्तेरिति तैरेव व्यभिचारात् ॥
(स्वो० व्या०) त्याह-अन्यथाऽतिप्रसङ्गात्-एवमनभ्युपगमेऽतिप्रसङ्गात् । एनमेवाह-रूपायक्षदर्शनस्यापि रूपादेरौर्दर्शनं रूपाद्यक्षदर्शनं तस्यापि अर्थयाथात्म्यत:अर्थयाथात्म्यादेतदिति निश्चयाभावात् । अभावश्च उक्तवत्-यथोक्तं तथा वासनाकल्पनोपपत्तेः 'रूपाद्यक्षदर्शनमपि न तत्रार्थयाथात्म्यतः, अपि तु जन्मान्तरवासनातः' इत्यादेरपि वक्तुं शक्यत्वात् , इत्यलं प्रसङ्गेन ॥ १५
वुद्ध्याकार एवायं-समानाकारो घटादिगतः । इति चेत्, एतदाशयाहकोऽस्य हेतुरिति वाच्यम् । तदेककार्यकारिणामिह प्रक्रमे मृदुद्ध्याख्यैककार्यकारिणां घट-शरावो-ष्ट्रिको-दञ्चनादीनाम् अतत्कारिभेदः अतत्कारिभ्यःहिम-तुषार-करकादिभ्यो भेदोऽतत्कारिभेद इति चेत् अस्य हेतुः एतदाशङ्क्याहनेत्यादि । न-नैतदेवम् , इन्द्रियादिभिर्व्यभिचारात्, इन्द्रिय-मनस्कारा-ऽऽ-२० लोकादयस्तदेककार्यकारिणोऽतत्कारिभिन्नाः, न च यथोक्तबुद्ध्याकारहेतवः । आहन रूपज्ञानादि, 'आदि'शब्दाद् रसज्ञानादिग्रहः, एककार्यमिह गृह्यते येन तदेककार्यकारित्वमिन्द्रियादीनां भवति, अपि तु समानजातीयक्षणोत्पादः एकं कार्यमिह गृह्यते, तेषां-समानजातीयैककार्याणां अतत्कारिभ्यः-समानजातीयैककार्याकारिभ्यो भेदोऽत्र-प्रक्रमे विवक्षितः। इति चेत् , एतदाशङ्याह-२५ नेत्यादि । न-नैतदेवम् । कुत इत्याह-सर्वेषामेव इन्द्रियादीनामसौ-समानजातीयक्षणोत्पादो विद्यते। कथमित्याह-रूपज्ञानादिभावेऽपि सति इन्द्रियादिसमानजातीयक्षणोत्पत्तेः कारणात् तैः-इन्द्रियादिभिर्व्यभिचारः। न हीन्द्रियादीनामपि समानजातीयक्षणोत्पादोऽतत्कारिभेदश्च न विद्यते, तथापि न ते समानबुद्ध्याकारहेतव इति तैरेव व्यभिचारः॥