________________
२८२
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीया
(मूलम्) - नासिद्धिा, प्रधानेश्वरादिकार्यत्वसमानपरिणामविकलेभ्योऽपि
भावेभ्यः 'प्रधानादिकार्याः प्रधानादिकार्याः' इति केषाश्चित् समान५बुद्धयादिसिद्धेः, न, तस्याः सङ्केतसम्मोहहेतुत्वात् , आविद्वदङ्गनादीनामविशेषेण समानपरिणामवावेष्विवाक्षदर्शनत एव तदप्रवृत्तेः । तथाऽक्षदर्शनमपि न तत्रार्थयाथात्म्यता, अपि तु जन्मान्तरवासनात इति चेत्, तत्रापि किं निमित्तमिति वाच्यम् । जन्मान्तरवासनैवेति चेदनवस्था, अनादित्वात् तद्वासनाया अयमप्य"दोष इति चेत्, न, अनादितथाऽक्षदर्शनादर्थयाथात्म्यसिद्धेः अन्यथाऽतिप्रसङ्गात् रूपाद्यक्षदर्शनस्यापि तत्रार्थयाथात्म्यत एतत्'
(स्वो० व्या०) जैनाः । ततश्चानेन अनन्तरोदितेन न किश्चिदुपद्रूयते। कुत इत्याह-असमानेभ्यश्चक्षुरादिभ्यः समानबुद्ध्याद्यसिद्धः, तत्सिद्धौ च नो बाधेति भावना ॥ १५ आह-मासिद्धिः, असमानेभ्यः समानबुद्ध्यादेरिति प्रक्रमः । कुत इत्याह-प्रधानेश्वरादिकार्यत्वसमानपरिणामविकलेभ्योऽपि भवद्दर्शननीत्या, भावेभ्यःमहदादिभ्यः 'प्रधानादिकार्याः प्रधानादिकार्याः' इति-एवं केषाश्चित्साङ्ख्यादीनां समानबुद्ध्यादिसिद्धेः । एतदाशक्याह-नेत्यादि । न-नैतदेवम् ,
तस्याः-समानबुद्ध्यादिसिद्धेः सङ्केतसम्मोहहेतुत्वात्-असच्छास्त्रसङ्केतसम्मोह२० निबन्धनत्वात् । कथमेतदेवमित्याह-आविद्वदङ्गनादीनां-प्रमातॄणामविशेषेण
सामान्येन समानपरिणामवावेष्विव-घट-शरावो-ष्ट्रिको दञ्चनादिषु अक्षदर्शनत एव तदप्रवृत्तेः-प्रधानादिकार्याः प्रधानादिकार्या इति समानबुद्ध्यायप्रवृत्तेः, अक्षदर्शनतश्चाविशेषेण घटादिषु समानबुद्ध्यादिसिद्धिः । आहतथाऽक्षदर्शनमपि समानतया न तत्र-घटादौ अर्थयाथात्म्यतः-अर्थ२५ यथात्मभावेन, अपि तु जन्मान्तरवासनातः । इति चेत्, एतदाशयाहतत्रापि-जन्मान्तरे किं निमित्तमिति वाच्यम् । जन्मान्तरवासनैवेति चेन्निमित्तमेतदाशयाह-अनवस्था, तत्राप्युक्तदोषानतिवृत्तेः । अनादित्वात् तद्वासनाया:-तथाऽक्षदर्शनवासनाया अयमपि अनवस्थालक्षणोऽदोषः । इति चेत्, एतदाशयाह-नेत्यादि । न-नैतदेवम् । अनादि च तत् तथाऽक्षदर्शनं च, ३० प्रक्रमात् समानतयाऽक्षदर्शनं चेति विग्रहस्तस्मादनादितथाऽक्षदर्शनात् । किमित्याह-अर्थयाथात्म्यसिद्धेः अनादितथाभावेन । इत्थं चैतदङ्गीकर्तव्यमि