Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 344
________________ अधिकारः] खोपजन्याख्यामुनिचन्द्रीयविवरणयुतम् ३०९ (मूलम्) स्वात्, अन्यथा पारम्पर्येणापि ततस्तदसिद्धेः, इत्थम्भूतयोरपि तयोः साधाभ्युपगमेऽपन्यायः । इति सर्वात्मना तद्ग्रहे तथैव निश्चयापत्तिः, तमन्तरेणापि तत्तथाताऽभ्युपगमेऽतिप्रसङ्गात् ॥ ५ स्यादेतत् सर्वात्मना तद्ग्रहेऽपि न तथैव निश्चयो भवति, कारणान्तरांपेक्षित्वात्, बुद्धिपाटवादेनिश्चयभेददर्शनात्, तीक्ष्णबुद्धीनां योगिनांरूपदर्शनमात्रेण तदन्यासम्भविक्षणिकत्वादिनिश्चयसिद्धः, न, वाङ्मात्रत्वात्, तीक्ष्णबुद्धीनामित्यत्र बुद्धेस्तैक्षण्यायोगात्, सर्वथैकखभाववस्तुवादिनस्तत्प्रभवत्वेन सर्वबुद्धीनामेव तत्परिच्छेद-.. (खो० व्या०) इत्यर्थः । इतरस्यास्तु-तत्फलसाधन्याः तथासाधकत्वात्-पारम्पर्येण साधकत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे पारम्पर्येणापि ततः-शक्तेः तदसिद्धेः-पारम्पर्येणापि विवक्षितफलासिद्धेः, इत्थम्भूतयोरपि तयोः-शक्त्योः साधाभ्युपगमेऽपन्यायः-अतिप्रसङ्गः। इति-एवं सर्वा-१५ त्मना तहे-अभ्युदयादिसाधनत्वेन दान-हिंसादिविरतिचेतनाग्रहे किमित्याहतथैव निश्चयापत्तिः-अभ्युदयादिसाधनत्वेनैव निश्चयापत्तिः तमन्तरेणापितथा निश्चयं विनाऽपि तत्तथाताऽभ्युपगमे-दान-हिंसादिविरतिचेतनाया अभ्युदयादिसाधनत्वाभ्युपगमेऽतिप्रसङ्गात् । नीलनिश्चयाजनकस्य पीतानुभवस्य नीलानुभवत्वप्राप्तेः अतिप्रसङ्ग इति भावना ॥ २० । स्यादेतदित्यादि । स्यादेतत्-अथैवं मन्यसे सर्वात्मना तगृहेऽपि-अभ्युदयादिसाधनत्वेन दान-हिंसादिविरतिचेतनाग्रहेऽपि सति किमित्याह-न तथैव-अभ्युदयादिसाधनत्वेनैव निश्चयो भवति । कुत इत्याह-कारणान्तरापेक्षित्वात् निश्चयस्य । एतदेवाह-बुद्धिपाटवादेनिश्चयभेददर्शनात् । एतद्भावनायाहतीक्ष्णवुद्धीनां योगिनां, सूक्ष्मबुद्धीनामित्यर्थः, रूपदर्शनमात्रेण तद- २५ न्यासम्भविक्षणिकत्वादिनिश्चयसिद्धेः-पृथग्जनासम्भविक्षणिकत्वादिनिश्चयसिद्धेः । 'आदि'शब्दात् परम्पराकारणत्वादिनिश्चयग्रहः । एतदाशङ्कयाह-न, वाङ्मात्रत्वात् । एतदेवाह-तीक्ष्णबुद्धीनामित्यत्र-अधिकारे बुद्धेस्तैक्षण्यायोगात्। अयोगश्च सर्वथैकखभाववस्तुवादिनो वादिनः तत्प्रभवत्वेन-एकखभाववस्तुप्रभवत्वेन हेतुना सर्वबुद्धीनामेव तत्परिच्छेदकत्वाविशेषात्-३० १'रापेक्षितत्वातू' इति ग-पाठः।

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453